சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

நாரத³முனினா ப்ரோக்தா க³ணேஶஸ்துதி꞉

नारदमुनिना प्रोक्ता गणेशस्तुतिः
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px

गणेशस्तुतिः

नारद उवाच नमामि गणनाथं तं सर्वविघ्नविनाशिनम् । वेदान्तागोचरं तज्ज्ञैर्गम्यं ब्रह्मैव संस्थितम् ॥ ४०॥ मनोवाणीविहीनं नो मनोवाणीमयं न च । ब्रह्मेशानं कथं स्तौमि सिद्धिबुद्धिपतिं परम् ॥ ४१॥ त्वद्दर्शनेन हेरम्ब! कृतकृत्योऽहमञ्जसा । इत्युक्त्वा पूजयामास भक्तिभावसमन्वितः ॥ ४२॥ नमो नमो गणेशाय विघ्नराजाय ते नमः । भक्तानां विघ्नहन्त्रे चाभक्तानां विघ्नकारिणे ॥ ४४॥ अमेयमायया चैव संयुक्ताय नमो नमः । योगरूपाय वै तुभ्यं योगिभ्यो मोहदाय ते ॥ ४५॥ विनायकाय सर्वेश! नमश्चिन्तामणे नमः । अनन्तमहिमाधार नमस्ते चन्द्रमौलये ॥ ४६॥ एकदन्ताय देवाय मायिभ्यो मोहदाय ते । नमो नमः परेशाय परात्परतमाय ते ॥ ४७॥ निर्गुणाय नमस्तुभ्यं गुणाकाराय साक्षिणे । महाऽऽखुवाहनायैव मूषकध्वजधारिणे ॥ ४८॥ अनादये नमस्तुभ्यं ज्येष्ठराजाय ढुण्ढये । हर्ते कर्त्रे सदा पात्रे नानाभेदमयाय च ॥ ४९॥ त्वद्दर्शनसुधापानाद्धतं मे भ्रान्तिजं महत् । मरणं भिन्नभावाख्यं गणेशोऽहं कृतस्त्वया ॥ ५०॥ न भिन्नं परिपश्यामि त्वदृते गणनायक ! । शान्तिदं योगमासाद्य प्रसादात्ते न संशयः ॥ ५१॥ भक्तिं देहि गणाधीश! परां त्वत्पादपद्मयोः । कुरु मां गाणपत्यं त्वं प्रेमयुक्तं च ते पदि ॥ ५२॥ इत्युक्ता विररामाथ तं पुनर्गणपोऽवदत् । मदीया भक्तिरत्यन्तं भविष्यति सदाऽचला ॥ ५३॥ न योगाच्चलनं क्वापि भविष्यति महामुने ! । सदा योगीन्द्रपूज्यस्त्वं सर्वमान्यो भविष्यसि ॥ ५४॥ त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् । पठते श‍ृण्वते चैव भुक्तिमुक्तिप्रदायकम् ॥ ५५॥ इत्युक्ता तस्य हृदये ययौ लीनो गजाननः । सदा हृदि गणेशानं पश्यति स्म मुनिः स्वयम् ॥ ५६॥ इत्याख्यानं नारदीयं कथितं ते प्रजापते! । श‍ृणुयाद्यः पठेद्वा यः सोऽपि सद्गतिमाप्नुयात् ॥ ५७॥ इति नारदमुनिना प्रोक्ता गणेशस्तुतिः
ஜப எண்ணிக்கை: 0/108