सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

गणेशलीलास्तुतिः 

stotra-0e07ce91
रचयिता: पारंपरिक पाठ संख्या: 1
23px

गणेशलीलास्तुतिः

ॐ लाक्षासिन्दूरवर्णं सुरवरनमितं मोदकैर्मोदितास्यं हस्ते दन्तं ददानं हिमकरसदृशं तेजसोग्रं त्रिनेत्रम् । दक्षे रत्नाक्षसूत्रं वरपरशुधरं साखु सिंहासनस्थं गाङ्गेयं रौद्रमूर्तिं त्रिपुरवधकरं विघ्नभक्षं नमामि ॥ १॥

गौरीपुत्रं त्रिनेत्रं गजमुखसहितं नागयज्ञोपवीतं पद्माक्षं सर्वभक्षं सकलजनप्रियं सर्वगन्धर्वपूज्यम् । सम्पूर्णभालचन्द्रं वरदमतिबलं हन्तृकं चासुराणां हेरम्बमादिदेवं गणपतिममलं सिद्धिदातारमीडे ॥ २॥

यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथान्ये । विश्वोद्गतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनाशकाय ॥ ३॥

गजवदनमचिन्त्यं तीक्ष्णदन्तं त्रिनेत्रं बृहदुदरमनन्तं दन्तमाले ददानम् । परशुचषकपद्मद्वन्द्वहस्तारविन्दं हरियुगलनिविष्टं श्रीगणेशं भजामि ॥ ४॥

अभयवरदपाणिं लाड्डूपात्रं सुदन्तं नरपतिजपमालां नागपाशाङ्कुशं च । कनकमयविचित्रं मुद्गरं पाणिपद्मे परशुमपि वहन्तं विघ्नराजं नमामि ॥ ५॥

विघ्नेशं विश्ववन्द्यं सुविपुलयशसं लोकरक्षाप्रदक्षं साक्षात्सर्वापदासु प्रशमनसुमतिं पार्वतीप्राणसूनुम् । प्रायः सर्वासुरेन्द्रैः ससुरमुनिगणैः साधकैः पूज्यमानं कारुण्येनान्तरायामितभयशमनं विघ्नराजं नमामि ॥ ६॥

उच्चैर्ब्रह्माण्डखण्डद्वितय सहचरं कुम्भयुग्मं दधानः प्रेङ्खन्नागारि पक्षप्रतिभटविकट श्रोत्रतालाभिरामः । देव्याः शम्भोरपत्यं भुजगपतितनुस्पर्धि वर्धिष्णुहस्त- स्त्रैलोक्याश्चर्यमूर्तिः स भवतु सततं भूतये कुञ्जरास्यः ॥ ७॥

नमो नमो गजेन्द्राय एकदन्तधराय च । नमः ईश्वरपुत्राय गणेशाय नमो नमः ॥ ८॥

माता यस्य उमादेवी पिता यस्य महेश्वरः । मूषको वाहनं यस्य स नः पायाद्गणाधिपः ॥ ९॥

वन्दे वराभयपिनाककपालखड्गखट्वाङ्गदन्तमुसलाब्जकरं त्रिनेत्रम् । भीमं जटामुकुटिनं कमलासनस्थं काश्मीरवासममलं गणराजमाद्यम् ॥ १०॥

रक्ताङ्गरागं परश्वक्षमालासुदन्तपाणिं सितलड्डूपात्रम् । गजाननं सिंहरथाधिरूढं गणेश्वरं विघ्नहरं नमामि ॥ ११॥

संसिद्ध्यर्थनमत्सुरासुरमिलन्मौलिस्थितप्रोल्लसत्- सद्रत्न प्रभव प्रकृष्ट विभव प्रेङ्खन्मयूखोज्ज्वलत् । श्रेयो विघ्नमहाभयप्रशमने दिव्यं यदेकौषधं भूयान्नो द्विरदाननाङ्घ्रिकमलद्वन्द्वं तदिष्टाप्तये ॥ १२॥

बिभ्रत्पञ्चमुखानि योयमुदितः स्वातन्त्र्यमात्रात्मना शक्तेर्वैभवतः परप्रतिहतद्वैताख्यविघ्नव्ययः । एकीभूतमुखः सकारणगणानुकारिणा तेजसा देवःसंप्रति भासतां मयि यथा तत्त्वं गणाधीश्वरः ॥ १३॥

हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसादाश्लिष्टं प्रियया समपद्मद्यमकरया स्वाङ्कस्थया सन्ततम् । बीजापूरगदाधनुस्त्रिशिखयुक्चक्राब्जपाशोत्पल- व्रीह्यग्रस्थविषाणरत्न कलशान् हस्तैर्वहन्तं भजे ॥ १४॥

देव स्थूलतनुं गजेन्द्रवदनं लम्बोदर सुन्दरं विघ्नेशं मदगन्धलोलमधुपव्यालोलगण्डस्थलम् । दन्ताघातविदारिताहितजनं सिन्दूरशोभाकरं वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ॥ १५॥

द्विचतुर्दशवर्णभूषिताङ्गं मुसलाम्भोजधरं महोपवीतम् । द्विमृगाधिपगामिनं त्रिनेत्रं हरपुत्रं द्विरदाननं भजेऽहम् ॥ १६॥

जटामुकुटमण्डितं त्रिनयनं भजे षड्भुजं सतीसरनिवासिनमसुरनाशनं लोहितम् । वराभयपिनाकिनं त्वसिकपालभृच्छूलिनं गणैर्वृतगणेश्वरं कमलगं च मीमाकृतिम् ॥ १७॥

गजाननं भूतगणाधिसेवितं कपित्थजाम्बूफलसारभक्षणम् । उमापतेः शोकविनाशकारणं नमामि विश्वेश्वरमाशु सिद्धिदम् ॥ १८॥

लम्बोदरैकवदनः कमलासनस्थ- श्चन्द्रार्धमौलिरमलो भुजगेन्द्रहारः । भीमोऽष्टबाहुरुदितार्कमरीचिरष्ट सिद्धिप्रदो भवतु वाञ्छितसिद्धिदोनः ॥ १९॥

योऽभ्यर्चितः सुरगणैर्वरसिद्धिहेतोश्छेत्तं भयानि च करे परशुं दधानः । देवः स शम्भुदयितापरिवर्धित श्रीर्विघ्नान्निवारयतु वारणराजवक्त्रः ॥ २०॥

इति गणेशलीलास्तुतिः 

पाठ जप: 0/108