.. શ્રીગાયત્રીસ્તોત્રમ્ ..
॥ श्रीगायत्रीस्तोत्रम् ॥
आदिशक्ते जगन्मातः भक्तानुग्रहकारिणि । सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽम्बिके ॥१॥
त्वमेव सन्ध्ये गायत्रि सावित्री च सरस्वती । ब्रह्माणी वैष्णवी रौद्री रक्तश्वेता सितेतरा ॥२॥
प्रातर्बाला च मध्याह्ने यौवनस्था भवेत् पुनः । वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥३॥
हंसस्था गरुडारूढा तथा वृषभवाहिनी । ऋग्वेदाद्ध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥४॥
यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते । या सामगाऽपि सर्वेषु भ्राम्यमाणा तथा भुवि ॥५॥
रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी । त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥६॥
सप्तर्षिप्रीतिजननी माया बहुवरप्रदा । शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥७॥
आनन्दजननी दुर्गा दशधा परिपठ्यते । वरेण्या वरदा चैव वरिष्ठा वरवर्णिनी ॥८॥
गरिष्ठा च वराही च वरारोहा च सप्तमी । नीलगंगा तथा सन्ध्या सर्वदा भोगमोक्षदा ॥९॥
भागीरथी मर्त्यलोके पाताले भोगवत्यपि । त्रैलोक्यवाहिनी देवी स्थानत्रयनिवासिनी ॥१०॥
भूर्लोकस्था त्वमेवासि धरित्री लोकधारिणी । भुवर्लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥११॥
महर्लोके महासिद्धिः जनलोकेऽजनेत्यपि । तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥१२॥
कमला विष्णुलोके च गायत्री ब्रह्मलोकगा । रुद्रलोके स्थिता गौरी हरार्धांगनिवासिनी ॥१३॥
अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे । साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥१४॥
ततः परा पराशक्तिः परमा त्वं हि गीयसे । इच्छाशक्तिः क्रियाशक्तिः ज्ञानशक्तिस्त्रिशक्तिदा ॥१५॥
गंगा च यमुना चैव विपाशा च सरस्वती । सरयू रेविका सिन्धुः नर्मदैरावती तथा ॥१६॥
गोदावरी शतद्रुश्च कावेरी देवलोकगा । कौशिकी चन्द्रमा चैव वितस्ता च सरस्वती ॥१७॥
गण्डकी तापिनी तोया गोमती वेत्रवत्यपि । इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥१८॥
गान्धारी हस्तजिह्वा च पूषाऽपूषा तथैव च । अलंबुषा कुहूश्चैव शंखिनी प्राणवाहिनी ॥१९॥
नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः । हृद्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥२०॥
तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी । मूले तु कुण्डलीशक्तिः व्यापिनी केशमूलगा ॥२१॥
शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी । किमन्यत् बहुनोक्तेन यत् किञ्चित् जगती त्रये ॥२२॥
तत्सर्वं त्वं महादेवि श्रिये सन्ध्ये नमोऽस्तु ते इतीदं कीर्तितं स्तोत्रं सन्ध्यायां बहुपुण्यदम् ॥२३॥
महापापप्रशमनं महासिद्धिविधायकम् । य इदं कीर्तयेत् स्तोत्रं सन्ध्याकाले समाहितः ॥२४॥
अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् । सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥२५॥
भोगान् भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् । तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥२६॥
यत्र कुत्र जले मग्नः सन्ध्यामज्जनजं फलम् । लभते नात्र संदेहः सत्यं सत्यं तु नारद ॥२७॥
शृणुयाद्योपि तद्भक्त्या स तु पापात् प्रमुच्यते । पीयूषसदृशं वाक्यं सन्ध्योक्तं नारदेरितम् ॥२८॥
॥ श्रीगायत्रीस्तोत्रम् ॥