सनातन स्तोत्र संग्रह
Others Namawali
सनातन देव

श्रीगणपतिषोडशनामावलिः

stotra-0daa37c9
रचयिता: पारंपरिक पाठ संख्या: 9
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्नराजो विनायकः ॥ १॥ धूमकेतुर्गणाध्यक्षः भालचन्द्रो गजाननः । वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥ २॥ षोडशैतानि नामानि यः पठेत् श‍ृणुयादपि । विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥ ३॥ अथ नामावलिः । ॐ सुमुखाय नमः । ॐ एकदन्ताय नमः । ॐ कपिलाय नमः । ॐ गजकर्णकाय नमः । ॐ लम्बोदराय नमः । ॐ विकटाय नमः । ॐ विघ्नराजाय नमः । ॐ विनायकाय नमः । ॐ धूमकेतवे नमः । ॐ गणाध्यक्षाय नमः । ॐ भालचन्द्राय नमः । ॐ गजाननाय नमः । ॐ वक्रतुण्डाय नमः । ॐ शूर्पकर्णाय नमः । ॐ हेरम्बाय नमः । ॐ स्कन्दपूर्वजाय नमः । इति श्रीगणपतिषोडशनामावलिः
पाठ जप: 0/108