సనాతన దేవ
శ్రీగణేశస్తుతిః
श्रीगणेशस्तुतिः
श्रीगणेशस्तुतिः
वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टम् । कुङ्कुमरागशोणं कुवलयिनीजारकोरकापीडम् ॥ १॥
विघ्नान्धकारमित्रं शङ्करपुत्रं सरोजदलनेत्रम् । सिन्दूरारुणगात्रं सिन्धुरवक्त्रं नमाम्यहोरात्रम् ॥ २॥
गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् । लसद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ ३॥
गणेश्वरमुपास्महे गजमुखं कृपासागरं सुरासुरनमस्कृतं सुरवरं कुमाराग्रजम् । सुपाशसृणिमोदकस्फुटितदन्तहस्तोज्ज्वलं शिवोद्भवमभीष्टदं श्रितततेस्सुसिद्धिप्रदम् ॥ ४॥
विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवाट् विघ्नव्यालकुलप्रमत्तगरुडो विघ्नेभपञ्चाननः । विघ्नोत्तुङ्गगिरिप्रभेदनपविर्विघ्नाब्धिकुंभोद्भवः विघ्नाघौघघनप्रचण्डपवनो विघ्नेश्वरः पातु नः ॥ ५ ॥
॥ इति श्रीगणेशस्तुतिः ॥