सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीगणेशमङ्गलाष्टकम्

stotra-0c9291e2
रचयिता: पारंपरिक पाठ संख्या: 1
23px

श्रीगणेशमङ्गलाष्टकम्

गजाननाय गाङ्गेय सहजाय सदात्मने । गौरीप्रियतनूजाय गणेशायास्तु मङ्गलम् ॥ १॥ नागयज्ञोपवीताय नतविघ्नविनाशिने । नन्द्यादिगणनाथाय नायकायास्तु मङ्गलम् ॥ २॥ इभवक्त्राय चेन्द्रादिवन्दिताय चिदात्मने । ईशानप्रेमपात्राय नायकायास्तु मङ्गलम् ॥ ३॥ सुमुखाय सुशुण्डाग्रोक्षिप्तामृतघटाय च । सुरवृन्दनिषेव्याय चेष्टदायास्तु मङ्गलम् ॥ ४॥ चतुर्भुजाय चन्द्रार्धविलसन्मस्तकाय च । चरणावनतानर्थतारणायास्तु मङ्गलम् ॥ ५॥ वक्रतुण्डाय वटवे वन्याय वरदाय च । विरूपाक्षसुतायास्तु विघ्ननाशाय मङ्गलम् ॥ ६॥ प्रमोदमोदरूपाय सिद्धिविज्ञानरूपिणे । प्रकृष्टपापनाशाय फलदायास्तु मङ्गलम् ॥ ७॥ मङ्गलं गणनाथाय मङ्गलं हरसूनने । मङ्गलं विघ्नराजाय विघहर्त्रेस्तु मङ्गलम् ॥ ८॥ श्लोकाष्टकमिदं पुण्यं मङ्गलप्रदमादरात् । पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ॥ ९॥ इति श्रीगणेशमङ्गलाष्टकम्
पाठ जप: 0/108