सनातन स्तोत्र संग्रह
Laxminarayan Samhita
सनातन देव

॥ लक्ष्मीनारायणसंहिता खण्डः १ (कृतयुगसन्तानः) अध्यायः - ३ ॥

stotra-0c8c4fc1
रचयिता: पारंपरिक पाठ संख्या: 10
23px
लक्ष्मीनारायणसंहिता खण्डः १ (कृतयुगसन्तानः) अध्यायः - ३ श्रीनारायण उवाच-. अथाऽक्षरस्वरूपस्य हरेर्वामाऽङ्गसंस्थितेः । वामारूपेण सेवेच्छा सफलां कर्तुमिच्छता ।। १ ।। नारायणेव वामांगात्स्वात्मशक्तिमयं शुभम् । सर्वमांगल्यसौभाग्यप्रेमस्नेहद्रवाश्रयम् ।। २ ।। रूपानुरूपं स्वाधानं स्वक्षेत्रं स्वाश्रयं स्वकम् । स्वगुणैश्वर्यसामर्थ्यरजोबलगुहाश्रयम् । । ३ ।। मूर्तं लक्ष्म्यात्मकं रूपं धृतं रतिगुणाश्रयम् । अमोघरतिसाफल्यं लक्ष्म्या इच्छन् कृपानिधिः । । ४ ।। अमोघवीर्यवद्रूपं वासुदेवाख्यमादधत् । सोऽयं नारायणो वासुदेवः श्रीहरिरीरितः ।। '९ ।। द्वेधाऽभवत् स लक्ष्मीनारायणेतिसमाह्वयः । लक्ष्मीर्दृष्ट्वा ब्रह्मलोके सर्वान्मुक्ताँस्तु पूरुषान् ।। ६ ।। स्वां त्वेकां स्वसमाकारां नाऽन्यां तत्र व्यलोकयत् । तदा त्वप्रार्थयद् देवं स्वपतिं श्रीहरिं मुदा । । ७ । । पतिपत्नीकृते स्थानं योग्यं प्रकल्पय प्रभो । तस्या भावं समाज्ञाय प्रियायाः शुभवांच्छया ।। ८ ।। वैकुण्ठाख्यं धाम दिव्यं ब्रह्मलोकं ह्यकल्पयत् । सेवार्थं दासदासीश्च तत्राऽप्यवासयत्प्रभुः ।। ९ ।। तदर्थं दिव्यभोगाँश्च दिव्योपकरणान्यपि । दिव्यां तदीश्वरीं सृष्टिं पूर्णां पूर्णमनोरथाम् ।। 1.3.१० ।। सर्वसाधनसम्पन्नां स्मृद्धिसौख्यसमन्विताम् । चकार श्रीहरिः साक्षान्मेने तदीयपूर्णताम् ।। ११ ।। सोऽहं सा त्वमयं लोकौ वैकुण्ठश्चावयोरिति । दृष्ट्वा चैनं महायोगं पतिपत्नीमयं नवम् ।। त्रिगुणाऽजा हरेः शक्तिर्नित्या या तत्त्वसूतिका । । १२ ।। अनादिनिधना माया चकमे श्रीहरिं पतिम् । यथा तत्त्वात्मिका सृष्टिर्जायते यत्र लीयते ।। १३ ।। सा वै लक्ष्मीसमं रूपं धर्तुमिष्टं तदाऽऽर्थयत् । प्रभुं सर्वेश्वरं नाथं श्रीहरिं तु तदा पुनः ।। १४।। प्रभुणा तु समाज्ञप्ता रूपं मोहकरं नवम् । राधारूपं हि सुभगं ह्यसंख्यरतिभाजनम् । । १५ । । दधाराऽभिन्नपत्नीत्वे स्थिता चापि तदिच्छया । श्रीहरिस्तु तदर्थं श्रीकृष्णरूपो बभूव ह ।। १ ६।। सर्वकामाश्रयः सर्वरसवर्षी पुमान्परः । अमोघाऽमेयवीर्यश्रीसौन्दर्यबलकान्तिमान् ।। १७।। राधारमणयोग्यार्थयुवमूर्तिधरः प्रभुः । राधा विलोक्य सुभगं स्वानुयोग्यं वरं पतिम् ।। १८ ।। स्वाऽऽवासमार्थयद् दिव्यं स्वतन्त्रं तत्र धामनि । मद्विहारकृतोद्यानं मद्रत्यर्थमहाश्रयम् ।। १९ । । मद्विभूतिपराकाष्ठं मत्सामग्रीसमाहितम् । सच्चिदानन्दरूपाणि सर्वोपस्करणानि च ।। 1.3.२० ।। श्रीकृष्णस्य कृते तत्र सर्वाणि संभवन्त्विति । राधाऽभिलाषया सर्वं जातं दास्यश्च कोटिशः ।। २१ ।। सुस्मृद्धं तत्परं दिव्यं धाम गोलोकमक्षरम् । प्रसीम्ना लोक्यते यत्तद् ब्रह्मलोके समायतम् ।।२२ । । चारु गोलोकसद्धाम राधाकृष्णो ह्यकल्पयत् । श्रीहरिणा समाज्ञप्तं राधाकृष्णसभाजितम् ।। २३ ।। शाश्वतं ब्रह्मलोके तद्धाम गोलोकमाहितम् । तत्र राधाकृतां सेवां गृह्णाति कृष्णरूपधृक् ।। २४ । । ब्रह्मलोके च गोलोके वैकुण्ठे भोग्यसञ्चयाः । समानाः श्रीहरेः सन्ति भक्तानन्दकराः सदा ।। २५। । यथालिंगं यथारूपं यथायोगं यथार्हणम् । यथाजोषं यथापेक्षं हरेः कामाद्भवन्ति तै ।। २६ ।। दिव्यं रतिसुखं नित्य दिव्याऽऽनन्दस्तदात्मनाम् । दिव्य प्रेम हरेर्योगान्नित्यं तत्राऽऽभिजायते ।। २७। । स्वप्रियासु सदा नाथो वैकुण्ठे रमते यथा । गोलोकेऽपि तथा भर्ता प्रेयसीषु प्रमोदते ।। २८ । । अक्षरे तु परे धाम्नि मुक्तेषु रमते हरिः । मुक्तान् भक्तान् सखीन् दासीः स्वयं क्रीडयति प्रभुः ।। २९ । । एकं वा युगलं रूपं यथा मां समुपासते । तथा ते मां प्रपद्यन्ते स्वामिनं सुखदं पतिम् । । 1.3.३० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुग-सन्ताने लक्ष्मीराधाकृते वैकुण्ठगोलोक-धामद्वयक्लृप्तिनिरूपणनामा तृतीयोऽध्यायः । । ३ । ।
1 2 3 4 5 6 7 8 9 10 11
पाठ जप: 0/108