சனாதன ஸ்தோத்திர மஞ்சரி
கீ₃தா
ஸனாதன தே³வ

.. ஶ்ரீமத்³ப⁴க³வத்³கீ³தாமாஹாத்ம்யம் ..

॥ श्रीमद्भगवद्गीतामाहात्म्यम् ॥
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 1
23px

गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान्। विष्णोः पदमवाप्नोति भय-शोकादि-वर्जितः ॥१॥

गीताध्ययन-शीलस्य प्राणायाम-परस्य च। नैव सन्ति हि पापानि पूर्व-जन्म-कृतानि च ॥२॥

मल-निर्मोचनं पुंसां जल-स्नानं दिने दिने। सकृद्-गीताम्भसि स्नानं संसार-मल-नाशनम्॥३॥

गीता सुगीता कर्तव्या किमन्यैः शास्त्र-विस्तरैः। या स्वयं पद्मनाभस्य मुख-पद्माद्-विनिःसृता॥४॥

भारतामृत-सर्वस्वं विष्णोर्वक्त्राद्-विनिःसृतम्। गीता-गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते॥५॥

सर्वोपनिषदो गावो दोग्धा गोपाल-नन्दनः। पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥६॥

एकं शास्त्रं देवकी-पुत्र-गीतम् एको देवो देवकी-पुत्र एव। एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा॥७॥

॥ इति गीतामाहात्म्यम् ॥

ஜப எண்ணிக்கை: 0/108