सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

॥ श्रीचतुश्लोकी भागवतम् ॥

stotra-0c689c93
रचयिता: पारंपरिक पाठ संख्या: 2
23px

अहमेवासमेवाग्रे नान्यद्‌ यत्‌ सदसत्‌ परम्‌ । पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम्‌ ॥ १ ॥

ऋतेऽर्थं यत्‌ प्रतीयेत न प्रतीयेत चात्मनि ॥ तद्‌विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥ २ ॥

यथा महान्ति भूतानि पूतेषूच्चावचेष्वनु । प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम्‌ ॥ ३ ॥

एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः । अन्वयव्यतिरेकाभ्यां यत्‌ स्यात्‌ सर्वत्र सर्वदा ॥ ४ ॥

॥ इति  श्रीचतुश्लोकी भागवतम् ॥

पाठ जप: 0/108