.. ಶ್ರೀವರವರಮುನಿ ಸುಪ್ರಭಾತಂ ..
श्रीवादिभीकरगुरुभिरनुगृहीतं श्रीरामानुजसुप्रभातम्
जयजय यतिसार्वभौमामलस्वान्त ! तुभ्यं नमः जयजय जनिसिन्धुमग्नात्मसन्तारकग्रामणीः । जयजय भजनीय कूरेशमुख्यैः प्रसीद प्रभो ! जयजय विदुषां निधे ! जागृहि श्रीनिधे ! जागृहि ॥ १ ॥
पूणार्यपूर्णकरुणापरिलब्धबोध ! वैराग्यभक्तिमुखदिव्यगुणामृताब्धे !। श्रीयामुनार्यपदपंकजराजहंस ! रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ २ ॥
आनेतुमद्य वरदस्य गजाद्रिभर्तुः पानीयमच्छमतिशीतमगाधकूपात् । ध्वान्तं निरस्तमरुणस्य करैस्समन्तात् रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ३ ॥
श्रीरंगराजपदपंकजयोरशेष- कैंकर्यमाकलयितुं सकुतूहलस्त्वम्। उत्तिष्ठ नित्यकृतिमप्यखिलां च कर्तुं रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ४ ॥
त्वां वीक्षितुं समुपयाति वृषाचलेन्द्रः त्वत्संप्रक्लृप्तवरशङ्खरथांगपाणिः। संयोजितामुरसि मां भवतैव बिभ्रत् रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ५ ॥
श्रीमत्कुरंगपरिपूर्णविभुस्त्वदुक्तं श्रीभाष्यशास्त्रममलं त्वयि भक्तियुक्तः । श्रोतुं समिच्छति यतीन्द्र ! सितोर्ध्वपुण्ड्रः ' तं बोधयार्थमखिलं तव सुप्रभातम् ॥ ६ ॥
श्रीभाष्यमालिखितुमात्तविशाललेख्यः श्रीवत्सचिह्नगुरुरानतदिव्यगात्रः । वेदान्तसूत्रमपिं वक्तुममुष्य सर्वम् उत्तिष्ठ लक्ष्मणमुने ! तव सुप्रभातम् ॥ ७ ॥
श्रीरंगवेंकट श्रीमान् स पूर्णवटुरादरतः प्रगृह्य श्रीपादुका यतिपते । पदयोः प्रयोक्तुम् । द्वारि स्थिति वितन्ते प्रणतार्तिहारिन् ! रामानुजार्य | भगवन । तव सुप्रभातम् ॥ ८ ॥
काषायवस्त्रकटिसूत्रकमण्डलूश्च । श्रीदन्तकाष्ठमपि देशिकसार्वभौमाः। पाणी निधाय निवसन्ति विशुद्धगात्राः रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ६ ॥
त्वां बोधयन्ति गुरवः प्रथिता महान्तः श्रीवैष्णवाश्च यमिनस्तव पादभक्ताः। एकान्तिनश्च विमलास्त्वदनन्यभावाः तान् पालयाद्य यतिशेखर ! सुप्रभातम् ॥ १० ॥
ब्राह्मे प्रबुद्ध्य विबुधाः स्वगुरून् प्रणम्य रामानुजाय नम इत्यसकृब्रुवाणाः। अष्टाक्षरं सचरमं द्वयमुच्चरन्ति । रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ११ ॥
प्रातः पठन्तिं परमद्रविडप्रपन्न गायत्रिमन्त्रशतमष्टशिरस्कमच्छम्। श्रीवैष्णवास्तव पदाब्जनिविष्टभावाः रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ १२ ॥
आराधनं रचयितुं कमलासखस्य श्रीयादवाचलपतेर्विविधोपचारैः। पातुं च दृष्टिकमलेन नतानशेषान् रामानुजार्य ! भगवन ! तव सुप्रभातम् ॥ १३ ॥
संसेव्य ! सप्तशतसंयमिसार्वभौमैः सद्देशिकैस्सकलशास्त्रविदां वरिष्ठैः। एकान्तिभिः परमभागवतैर्निषेव्य ! रामानुजार्य ! भगवन ! तव सुप्रभातम् ॥ १४ ॥
गद्यत्रयं निगमशेखरदीपसारौ वेदार्थसंग्रहमपि प्रथितं च नित्यम्। गीतार्थभाष्यमपि देशिकपुंगवाना दातुं प्रसीद यतिशेखर ! सुप्रभातम् ॥ १५ ॥
पादाम्बुजं यतिपते । शरणं विहर्तुं संगत्य संसरणवारिधिलंघनोत्काः। आयान्ति हस्तकमलाभिधृतोपचाराः तान् पाहि ते करुणया तव सुप्रभातम् ॥ १६ ॥
स्नातुं कवेरतनयासलिलेषु शिष्यैः मार आचार्यपूरुषवरैर्यतिभिर्विशुद्धैः। श्रीवैष्णवैश्च सह सेव्य ! महानुभावैः रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ १७ ॥
रामानुजार्य ! रमणीयगुणाभिराम ! रागादिदूरग ! गुरो ! गुरुसार्वभौम !। सत्त्वप्रधान ! शरणागतवत्सल ! त्वत् पादाब्जयोरिह परत्र च किंकरः स्याम् ॥ १८ ॥
॥ इति श्रीरामानुजसुप्रभात समाप्तम् ॥
श्रीवादिभीकरगुरुभिरनुगृहीतं श्रीवरवरमुनिसुप्रभातम्
रविरुदयत्यथापि न विनश्यति मे तिमिरं विकसति पंकजं हृदयपंकजमेव न मे। वरवरयोगिवर्य ! वरणीय ! दयैकनिधे! जयजय देव जागृहि जनेषु निधेहि धियम् ॥ १ ॥
स्वपनमिदं तव स्वमहिमानुभवैकरसं त दपि तथाविधं तदिति जातु न वेत्ति जनः। वरवरयोगिवर्य ! तदिदं विजहातु भवान् अपरिमितं हितं त्रिजगतामनुचिन्तयितुम् ॥२ ॥
अवतरणं तदेव जगतामविवेकभृतां विविधहितावबोधनकृते हि कृतं भवता। तत इत एहि योगशयनान्मम नाथ ! जनान् अमृतमयैरपांगवलयैरभिषेचयितुम् ॥३ ॥
शरदरविन्दबृन्दसुषमापरिपोषजुषा । तव नयनेन केचन परे चरणेन तथा। मधुरगभीरधीरचतुरैरुदितैरितरे वरद ! धुरं धरन्ति भवसिन्धुमम तरितुम् ॥४ ॥
परमनभोनिवास ! फणिपुंगव ! रंगपतेः भवनमिदं हिताय जगतो भवताऽधिगतम्। तदपि सदैव देव ! नृगतिं प्रकटीकुरुषे तदिह महत् तवैव कुरु वैभवमुद्भिदुरम् ॥५ ॥
त्वदभिमतप्रियस्त्वदनुवर्तनधन्यतमात् अलमतिरिक्त इत्यखिललोकसुबोधमिदम् । अवनितलं त्वदीप्सितमिदं च हि तत्र वसन् अयमखिलस्तदैव निरुपायमुपैति पदम् ॥ ६ ॥
॥ इति वरवरमुनि सुप्रभातं समाप्तम् ॥