সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

শ্রীধরস্বামিনা বিরচিতং শ্রীবিঘ্নবিনাশকস্তোত্রম্ 

श्रीधरस्वामिना विरचितं श्रीविघ्नविनाशकस्तोत्रम् 
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 1
23px

श्रीविघ्नविनाशकस्तोत्रम्

ईशानो ढुण्ढिराजो गणपतिरखिलाघौघनाशो वरेण्यो देवानामग्रगण्यः सकलगुणनिधिर्योऽग्रपूजाधिकारी । विद्याधीशो बलिष्ठः षडरिविदलनः सिद्धिबुद्धिप्रदाता जीवानां मुक्तिहेतुर्जयति भवहरः श्रीगुरुः सौख्यसिन्धुः ॥ १॥ विघ्नान्हन्तीति योऽसौ श्रुतिषु निगदितो विघ्नहेतिप्रसिद्धो व्यक्ते वाव्यक्तरूपे प्रणववपुरयं ब्रह्मरूपः स्वमात्रः । यो व्यक्तो भक्तहेतुर्निरवधिरमलो निर्गुणो निष्क्रियोऽपि भक्तानां मुक्तिहेतौ विदलयतिकृतं मायिकस्याद्वयः सः ॥ २॥ सर्पोरज्जुर्हि यद्वन्न भुजग इति सा कथ्यते रज्जुसर्पे विश्वं ब्रह्मैव तद्वन्नच जगदिति तत्खल्विदं ब्रह्मवाक्ये । सत्तासामान्यसरूपात्कथितमपि च यो दृश्यरूपो न तादृग् दृश्यं यद्विघ्नकृत्स्यात्तदपनति यो बोधतो विघ्नहायम् ॥ ३॥ सर्वं ब्रह्मस्वरूपं परमपरयुतं विश्वमाभाति यच्च चैतन्यस्याद्वयत्वात् गदित इति च यो दृश्यरूपोऽप्यरूपः । माया तत्सर्वकार्यं जडमिति कथितं यं विनाभावमेति सर्वत्रावस्थितत्वात्तदनुभव इति स्वादनाद्योद्वयः सः ॥ ४॥ भात्यस्त्यानन्दरूपो सदसुखजडतारूपदृश्येस्ति यो वै नित्यो नित्यादिकानां भवति किल तथा चेतनश्चेतनानाम् । सर्वस्यैतस्य मायाकृतसुखमिह यत्पार्थ्यते तद्गणेशो यस्तं सर्वादिभूतं भजत जगति भो! सारभूतं वरेण्यम् ॥ ५॥ नित्यं यन्निर्विकारं निरतिशयसुखं ब्रह्म तन्मत्स्वरूपं ज्ञात्वा विश्वातिभूतः सकलविदलयन् स्वार्चिषास्वस्थ आसे । माया तत्कार्यमेतत् स्पृशति न मयि वा दृश्यते नाविरासीन् मयायाः सर्वशक्तेः पर इति सततं यः स एवाद्वयोहम् ॥ ६॥ ब्रह्मानन्द करोयमात्ममतिदः श्रीढुण्ढिराजस्तवः विघ्नाघौघघनप्रचण्डपवनः कामेभपञश्चाननः । मायाव्यालकुलप्रमत्तगरुडो मोहाटवीहव्यवाड् आनान्घ्यनिवारणैकतरणिर्भेदाब्धिकुम्भोद्भवः ॥ ७॥ इति  श्रीधरस्वामिना विरचितं श्रीविघ्नविनाशकस्तोत्रं सम्पूर्णम् ॥
পাঠ জপ: 0/108