सनातन स्तोत्र संग्रह
राम स्तोत्रम्
सनातन देव

॥ रामद्वादशनामस्तोत्रम् ॥

stotra-06b56473
रचयिता: पारंपरिक पाठ संख्या: 6
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

॥ रामद्वादशनामस्तोत्रम् ॥

प्रथमं श्रीधरं विद्याद्द्वितीयं रघुनायकम्। तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम्॥ १॥ पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिम्। सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा॥ २॥ नवमं जलदश्यामं दशमं लक्ष्मणाग्रजम्। एकादशं च गोविन्दं द्वादशं सेतुबन्धनम्॥ ३॥ द्वादशैतानि नामानि यः पठेछ्रद्धयान्वितः। अर्धरात्रे तु द्वादश्यां कुष्ठदारिद्र्यनाशनम्॥ ४॥ अरण्ये चैव सङ्ग्रामे अग्नौ भयनिवारणम्। ब्रह्महत्या सुरापानं गोहत्याऽऽदि निवारणम्॥ ५॥ सप्तवारं पठेन्नित्यं सर्वारिष्टनिवारणम्। ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः। अश्वमेधशतं पुण्यं ब्रह्मलोकं गमिष्यति॥ ॥ इति श्री स्कान्दपुराणे उत्तरखण्डे श्री उमामहेश्वरसंवादे श्री रामद्वादशनामस्तोत्रं सम्पूर्णम् ॥

पाठ जप: 0/108