ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

ಶ್ರೀವಿನಾಯಕವಿನತಿಃ

श्रीविनायकविनतिः
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 4
23px

श्रीविनायकविनतिः

श्रीगणेशाय नमः । हेरम्बमम्बामवलम्बमानं लम्बोदरं लम्ब-वितुण्ड-शुण्डम् । उत्सङ्गमारोपयितुं ह्यपर्णां हसन्तमन्तर्हरिरूपमीडे ॥ १॥ मिलिन्द-वृन्द-गुञ्जनोल्लसत्कपोल-मण्डलं श्रुति-प्रचालन-स्फुरत्समीरवीजिताननम् । वितुण्ड-शुण्डमण्डल-प्रसार-शोभिविग्रहं निवारिताघ-विघ्नराशिमङ्कलालपं भजे ॥ २॥ गजेन्द्र-मौक्तिकालि-लग्न-कम्बुकण्ठ-पीठकं सुवर्णवल्लि-मण्डली-विधानबद्ध-दन्तकम् । प्रमोदि-मोदकाञ्चितं करण्डकं कराम्बुजे दधानमम्बिकामनो विनोद-मोददायकम् ॥ ३॥ गभीर-नाभि-तुन्दिलं सुपीत-पाट-धौतकं प्रतप्त-हाटकोपवीत-शोभिताङ्ग-सङ्ग्रहम् । सुरा-ऽसुरार्चितांघ्रिकं शुभक्रिया सहायकं महेशचित्त-चायकं विनायकं नमाम्यहम् ॥ ४॥ गजाननं गणेश्वरं गिरीशजा-कुमारकं महेश्वरात्मजं मुनीन्द्र-मानसाधि-धावकम् । मतिप्रकर्ष-मण्डितं सुभक्त-चित्त-मोदकं भजज्जनालिघोर-विघ्नघातकं भजाम्यहम् ॥ ५॥ लसल्ललाट-चन्द्रकं क्रियाकृतेऽस्ततन्द्रकं महेन्द्रवन्द्य-पादुकं षडाननाग्रजानुजम् । अहिं निवार्य मूषकाधिरक्षकं मयूरकं विलोक्य सुप्रसन्नमानसं गणाधिपं भजे ॥ हरिं निरीक्ष्य भीतिचञ्चलाक्षमेत्य मातरं निजावनाय पार्श्वमागतां विलोक्य सत्वरम् । तदीय-वक्षसि प्रविश्य सुस्थिरं परे वरे नमामि सेवकालिशोक-शोषकं निरन्तरम् ॥ ७॥ निलिम्प-लोकमण्डलो-प्रपूर्ण-पूजनीयकं सुभक्त भक्तिभावना विभाविताखिलप्रदम् । प्रभूत भूति भावकं दुरूह दुःख पावकं व्रजेश्वरांश-सम्भवं विद्युप्रभासितालिकम् ॥ ८॥ गिरीन्द्र-नन्दिनी-कराम्बुज-प्रसाधिताऽलकम् विलोल-शुण्ड-चुम्बितोग्र-भालचन्द्र-बालकम् । निजाखु-खेलनापरं कखन्तमस्तचापलं नमामि सिद्धि-बुद्धि-हस्त-चालि-पञ्चचामरम् ॥ ९॥ विनायकस्य विनतिं पठतां श‍ृण्वतां सताम् । सिद्धि-बुद्धि-प्रदां सन्ति मङ्गलानि पदे पदे ॥ १०॥ ॥ इति पण्डित श्रीशिवप्रसादद्विवेदि-विरचिता विनायक-विनतिः ॥
ಜಪ ಎಣಿಕೆ: 0/108