సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

.. శ్రీగణపతి తోటకపంచకస్తుతిః ..

॥ श्रीगणपति तोटकपञ्चकस्तुतिः ॥
రచయిత: పారంపరిక వీక్షణలు: 2
23px

श्रीगणपति तोटकपञ्चकस्तुतिः

प्रणवःप्रभशोभित शान्ततनो शिवपार्वतिलालित बालतनो । वरमोदकहस्त मनोज्ञतनो वहते हृदये गणराजतनो ॥ १ ॥ अपरोक्षसुधारसहर्षनिधे परमार्थविबोधकसत्त्वनिधे । श्रुतिवन्दितचित्परतत्त्वनिधे शरणं शरणं गजवक्त्रगुरो ॥ २ ॥ अतिसुन्दर कुञ्जर बालगुरो अवबोध निसर्ग सुजूर्णिमयम् । परितुष्य पदाम्बुरुहं भवतां दयया परिदर्शय मां सततम् ॥ ३ ॥ परितप्यति दुःसह लोक जना कृमिजातिज मण्डित घोरविषात् । कृपया परिरक्षतु विघ्नहर शरणागत वत्सल भक्तपते ॥ ४ ॥ रवि चन्द्र च लोहित सौम्य गुरु कवि मन्द तमो सह केतु खगान् । परिपूजित वारणवक्त्र भृते परिपालयमां ग्रहदोषभरात् ॥ ५ ॥ ॥ इति श्रीगणपति तोटकपञ्चकस्तुतिः ॥
జప గణన: 0/108