॥ श्रीरामानुजाष्टोत्तरशतनामस्तोत्रम् ॥
॥ श्रीरामानुज अष्टोत्तरशतनामस्तोत्रम् ॥
रामानुजः पुष्कराक्षो यतीन्द्रः करुणाकरः । कान्तिमत्यात्मजः श्रीमान् लीलामानुषविग्रहः ॥ १॥
सर्वशास्त्रार्थतत्त्वज्ञः सर्वज्ञः सज्जनप्रियः। नारायणकृपापात्रः श्रीभूतपुरनायकः ॥ २॥
अमोघो भक्तमन्दारः केशवानन्दवर्धनः। काञ्चिपूर्णप्रियसखः प्रणतार्तिविनाशनः ॥ ३॥
पुण्यसङ्कीर्तनः पुण्यो ब्रह्मराक्षसमोचकः। यादवापादितापार्थवृक्षच्छेदकुठारकः ॥ ४॥
अमोघो लक्ष्मणमुनिः शारदाशोकनाशनः। निरन्तरजनाज्ञाननिर्मोचनविचक्षणः ॥ ५॥
वेदान्तद्वयसारज्ञो वरदाम्बुप्रदायकः। पराभिप्रायतत्त्वज्ञो यामुनाङ्गुलिमोचकः ॥ ६॥
देवराजकृपालब्धषड्वाक्यार्थमहोदधिः। पूर्णार्यलब्धसन्मन्त्रः शौरिपादाब्जषट्पदः ॥ ७॥
त्रिदण्डधारी ब्रह्मज्ञो ब्रह्मज्ञानपरायणः । रङ्गेशकैंकर्यरतो विभूतिद्वयनायकः ॥ ८॥
गोष्ठीपूर्णकृपालब्धमन्त्रराजप्रकाशकः। वररङ्गानुकम्पात्त द्राविडाम्नायपारगः ॥ ९॥
मालाधरार्यसुज्ञातद्राविडाम्नायतत्त्वधीः । चतुःसप्ततिशिष्याढ्यः पञ्चाचार्यपदाश्रयः ॥ १०॥
प्रपीतविषतीर्थाम्भः प्रकटीकृतवैभवः। प्रणतार्तिहराचार्यदत्तभि:कभोजनः ॥ ११॥
पवित्रीकृतकूरेशो भागिनेयत्रिदण्डकः। कुरेशदाशरथ्यादिचरमार्थप्रदायकः ॥ १२॥
रङ्गेशवेङ्कटेशादिप्रकटीकृतवैभवः।। देवराजार्चनरतो मूकमुक्तिप्रदायकः ॥ १३॥
यज्ञमूर्तिप्रतिष्ठाता मन्नाथो धरणीधरः। वरदाचार्यसद्भक्तो यज्ञेशार्तिविनाशकः ॥ १४॥
अनन्ताभीष्टफलदो विट्ठलेन्द्रप्रपूजितः। श्रीशैलपूर्णकरुणालब्धरामायणार्थकः ॥ १५॥
प्रपत्तिधर्मैकरतो गोविन्दार्यप्रियानुजः। व्याससूत्रार्थतत्त्वज्ञः बोधायनमतानुगः ॥ १६॥
श्रीभाष्यादिमहाग्रन्थकारकः कलिनाशनः। अद्वैतमतविच्छेत्ता विशिष्टाद्वैतपालकः॥ १७॥
कुरङ्गनगरीपूर्णमन्त्ररत्नोपदेशकः। विनाशिताखिलमतः शेषीकृतरमापतिः॥ १८॥
पुत्रीकृतशठारातिः शठजिदृणमोचकः। भाषादत्तहयग्रीवो भाष्यकारो महायशाः ॥ १९॥
पवित्रीकृतभूभागः कूर्मनाथप्रकाशकः । श्रीवेङ्कटाचलाधीशशङ्खचक्रप्रदायकः ॥ २०॥
श्रीवेङ्कटेशश्वशुरः श्रीरमासखदेशिकः। कृपामात्रप्रसन्नार्यो गोपिकामोक्षदायकः ॥ २१॥
समीचीनार्यसच्छिष्यः सत्कृतो वैष्णवप्रियः। कृमिकण्ठनृपध्वंसी सर्वमन्त्रमहोदधिः ॥ २२॥
अङ्गीकृतान्ध्रपूर्णाख्यः शालग्रामप्रतिष्ठितः। श्रीभक्तग्रामपूर्णेशविष्णुवर्द्धनरक्षकः॥ २३॥
बौद्धध्वान्तसहस्रांशुः शेषरूपप्रदर्शकः।। नगरीकृतवेदाद्रिदिल्लीश्वरसमर्चितः ॥ २४॥
नारायणप्रतिष्ठाता सम्पत्पुत्रविमोचकः। सनत्कुमारजनकः साधुलोकशिखामणिः ॥ २५॥
सुप्रतिष्ठितगोविन्दराजः पूर्णमनोरथः। गोदाग्रजो दिग्विजेता गोदाभीष्टप्रपूरकः ॥ २६॥
सर्वसंशयविच्छेत्ता विष्णुलोकप्रदायकः। अव्याहतमहद्वा यतिराजो जगद्गुरुः ॥ २७॥
एवं रामानुजार्यस्य नाम्नामष्टोत्तरं शतम्। यः पठेच्छृणुयाद्वापि सर्वान् कामानवाप्नुयात् ॥ २८॥
॥ इति श्रीरामानुजाष्टोत्तरशतनामस्तोम् ॥