सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

Srigarudashottaratshatanamavali:

srigarudashottaratshatanamavali
रचयिता: पारंपरिक पाठ संख्या: 1
23px

॥ श्रीगरुडाष्टोत्तरशतनामावलिः ॥

ॐ वैनतेयाय नमः । ॐ खगपतये नमः । ॐ काश्यपाय नमः । ॐ अग्नये नमः । ॐ महाबलाय नमः । ॐ तप्तकाञ्चनवर्णाभाय नमः । ॐ सुपर्णाय नमः । ॐ हरिवाहनाय नमः । ॐ छन्दोमयाय नमः । ॐ महातेजसे नमः । ॐ महोत्साहाय नमः । ॐ महाबलाय नमः । ॐ ब्रह्मण्याय नमः । ॐ विष्णुभक्ताय नमः । ॐ कुन्देन्दुधवलाननाय नमः । ॐ चक्रपाणिधराय नमः । ॐ श्रीमते नमः । ॐ नागारये नमः । ॐ नागभूषणाय नमः । ॐ विज्ञानदाय नमः ॥ २० ॥

ॐ विशेषज्ञाय नमः । ॐ विद्यानिधये नमः । ॐ अनामयाय नमः । ॐ भूतिदाय नमः । ॐ भुवनत्रात्रे नमः । ॐ भूशयाय नमः । ॐ भक्तवत्सलाय नमः । ॐ सप्तछन्दोमयाय नमः । ॐ पक्षिणे नमः । ॐ सुरासुरसुपूजिताम नमः । ॐ गजभुजे नमः । ॐ कच्छपाशिने नमः । ॐ दैत्यहन्त्रे नमः ।

ॐअरुणानुजाय नमः । ॐअमृतांशाय नमः । ॐअमृतवपुषे नमः । ॐआनन्दनिधये नमः । ॐअव्ययाय निगमात्मने नमः । ॐ निराहाराय नमः ॥ ४० ॥

ॐ निस्त्रैगुपयाय नमः । ॐनिरप्ययाय नमः । ॐनिर्विकल्पाय नमः । ॐपरस्मै-ज्योतिषे नमः । ॐपरात्परतराय नमः । ॐपरस्मै नमः । ॐशुभाङ्गाय नमः । ॐशुभदाय नमः । ॐशूराय नमः । ॐसूक्ष्मरूपिणे नमः । ॐबृहत्तनवे नमः । ॐविषाशिने नमः । ॐविदितात्मने नमः । ॐविदिताय नमः । ॐजयवर्धनाय नमः । ॐदार्ढ्याङ्गाय नमः । ॐजगदीशाय नमः । ॐजनार्दनमहाध्वजाय नमः । ॐ सतां सन्तापविच्छेत्रे नमः । ॐ जरामरणवर्जिताय नमः ॥ ६० ॥

ॐ कल्याणदाय नमः । ॐ कलातीताय नमः । ॐ कलाधरसमप्रभाय नमः । ॐ सोमपाय नमः । ॐ सुरसङ्घेशाय नमः । ॐ यज्ञाङ्गाय नमः । ॐ यज्ञभूषणाय नमः । ॐ महाजवाय नमः । ॐ जितामित्राय नमः । ॐ मन्मथप्रियबान्धवाय नमः । ॐ शङ्खभृते नमः । ॐ चक्रधारिणे नमः । ॐ बालाय नमः । ॐ बहुपराक्रमाय नमः । ॐ सुधाकुम्भधराय नमः । ॐ धीमते नमः । ॐ दुराधर्षाय नमः । ॐ दुरारिघ्ने नमः । ॐ वज्राङ्गाय नमः । ॐ वरदाय नमः ॥ ८० ॥

ॐ वन्द्याय नमः नमः । ॐ वायुवेगाय नमः । ॐ वरप्रदाय नमः । ॐ विनतानन्दनाय नमः । ॐ श्रीदाय नमः । ॐ विजितारातिसङ्कुलाय नमः । ॐ पतद्वरिष्ठाय नमः । ॐ सर्वेशाय नमः । ॐ पापघ्ने नमः । ॐ पापनाशनाय नमः । ॐ अग्रिजिते नमः । ॐ जयघोषाय नमः । ॐ जगदाह्लादकारकाय नमः । ॐ वज्रनासाय नमः । ॐ सुवक्त्राय नमः । ॐ मारिघ्नाय नमः । ॐ मदभञ्जनाय नमः । ॐ कालज्ञाय नमः । ॐ कमलेष्टाय नमः । ॐ कलिदोषनिवारणाय नमः ॥ १०० ॥

ॐ विद्युन्निभाय नमः नमः । ॐ विशालाङ्गाय नमः । ॐ विनतादास्य-मोचनाय नमः । ॐ स्तोमात्मने नमः । ॐ त्रयीमूर्ध्ने नमः । ॐ भूम्ने नमः । ॐ गायत्रलोचनाय नमः । ॐ सामगानरताय नमः । ॐ स्रग्विणे नमः । ॐ स्वच्छन्दगतये नमः । ॐ अग्रण्ये नमः । ॐ श्रीपक्षिराजपरब्रह्मणे नमः ॥ १११ ॥

इति गरुडाष्टोत्तरशतनामावलिः समाप्ता 

 
पाठ जप: 0/108