सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

Sri Krishna Ashtottara Shatanaama Stotram

sri-krishna-ashtottara-shatanaama-stotram
रचयिता: पारंपरिक पाठ संख्या: 7
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

 श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्

ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषिः, अनुष्टुप्छन्दः, श्रीकृष्णो देवता, श्रीकृष्णप्रीत्यर्थे श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः ।

श्रीशेष उवाच । ॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः । वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १॥

श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः । चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधः ॥ २॥

देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः । यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३॥

पूतनाजीवितहरः शकटासुरभञ्जनः । नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥ ४॥

नवनीतनवाहारी मुचुकुन्दप्रसादकः । षोडशस्त्रीसहस्रेशस्त्रिभङ्गो मधुराकृतिः ॥ ५॥

शुकवागमृताब्धीन्दुर्गोविन्दो गोविदाम्पतिः । वत्सपालनसञ्चारी धेनुकासुरभञ्जनः ॥ ६॥

तृणीकृततृणावर्तो यमलार्जुनभञ्जनः । उत्तालतालभेत्ता च तमालश्यामलाकृतिः ॥ ७॥

गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः । इलापतिः परंज्योतिर्यादवेन्द्रो यदूद्वहः ॥ ८॥

वनमाली पीतवासाः पारिजातापहारकः । गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ॥ ९॥

अजो निरञ्जनः कामजनकः कञ्जलोचनः । मधुहा मथुरानाथो द्वारकानायको बली ॥ १०॥

वृन्दावनान्तसञ्चारी तुलसीदामभूषणः । स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ॥ ११॥

कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः । मुष्टिकासुरचाणूरमहायुद्धविशारदः ॥ १२॥

संसारवैरी कंसारिर्मुरारिर्नरकान्तकः । अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ १३॥

शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकृत् । विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ १४॥

सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी । सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ १५॥

जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः । वृषभासुरविध्वंसी बकारिर्बाणबाहुकृत् ॥ १६॥

युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः । पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ १७॥

कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः । दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः ॥ १८॥

नारायणः परम्ब्रह्म पन्नगाशनवाहनः । जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥ १९॥

पुण्यश्लोकस्तीर्थकरो वेदवेद्यो दयानिधिः । सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ॥ २०॥

इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् । कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ २१॥

स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया पुरा । कृष्णनामामृतं नाम परमानन्ददायकम् ॥ २२॥

अनुपद्रवदुःखघ्नं परमायुष्यवर्धनम् दानं श्रुतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ २३॥

पठतां श‍ृण्वतां चैव कोटिकोटिगुणं भवेत् । पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ॥ २४॥

धनावहं दरिद्राणां जयेच्छूनां जयावहम् । शिशूनां गोकुलानां च पुष्टिदं पुष्टिवर्धनम् ॥ २५॥

वातग्रहज्वरादीनां शमनं शान्तिमुक्तिदम् । समस्तकामदं सद्यः कोटिजन्माघनाशनम् ॥ २६॥

अन्ते कृष्णस्मरणदं भवतापभयापहम् । कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने । नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ॥ २७॥

इमं मन्त्रं महादेवि जपन्नेव दिवानिशम् । सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥ २८॥

पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् । निर्विश्य भोगानन्तेऽपि कृष्णसायुज्यमाप्युनात् ॥ २९॥

॥ इति श्रीनारदपञ्चरात्रे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥

पाठ जप: 0/108