Sri Durgashtakam
श्रीदुर्गाष्टकम्
हे मातर्जगदाधारे प्रणिनां प्राणरूपिणि । चैतन्यरूपके नित्ये दुर्गे देवि नमोस्तुते ॥ १॥
शारदे च परे सत्ये पूर्णरूपे सनातनि । ब्रह्माण्डरक्षिके हंसे दुर्गे देवि नमोस्तुते ॥ २॥
चतुर्वक्त्रे महामाये रौद्ररूपे महेश्वरि । महाकालीस्वरुपे च दुर्गे देवि नमोस्तुते ॥ ३॥
प्रणवाक्षरयोर्मध्ये बिन्दुरूपे परेश्वरि । कैवल्यधामरूपाख्ये दुर्गे देवि नमोस्तुते ॥ ४॥
सरस्वती च गायत्री सावित्रीरूपधारिणी । त्वमेव हे महागौरि दुर्गे देवि नमोस्तुते ॥ ५॥
महाकाली च लक्ष्मीश्च त्वमेव परमेश्वरि । त्वमेव सिद्धिदात्री च दुर्गे देवि नमोस्तुते ॥ ६॥
महागौरी च भद्रा च शान्ता रौद्रा तथैव च । अघोरा घोररूपा च दुर्गे देवि नमोस्तुते ॥ ७॥
सत्यज्ञानमनन्ताख्ये परब्रह्म स्वरूपिणी । कैवल्यज्ञानमूर्ति त्वां दुर्गे देवि नमोस्तुते ॥ ८॥
शरणेऽस्मि सदा मातस्तवाहं मुक्तिदायिनी । ब्रह्मदर्शनमिच्छामि हे मात जगदम्बिके ॥ ९॥
इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीदुर्गाष्टकम्