સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

Sri Durga Ashtottara Shatanama Stotram 3

Sri Durga Ashtottara Shatanama Stotram 3
રચયિતા: પારંપરિક વાચન સંખ્યા: 3
લિપિ પસંદ કરો: देवनागरी (संस्कृत)
14px

श्रीदुर्गाष्टोत्तरशतनामावली ३ 

अस्यश्री दुर्गाऽष्टोत्तरशतनाम महामन्त्रस्य नारद ऋषिः गायत्री छन्दः श्री दुर्गा देवता परमेश्वरीति बीजं कृष्णानुजेति शक्तिः शाङ्करीति कीलकं दुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ध्यानम् प्रकाशमध्यस्थितचित्स्वरूपां वराभये सन्दधतीं त्रिनेत्राम् । सिन्दूरवर्णामतिकोमलाङ्गीं मायामयीं तत्त्वमयीं नमामि ॥

अथ श्री दुर्गाऽष्टोत्तरशतनामावलिः

ॐ दुर्गायै नमः । ॐ दारिद्र्यशमन्यै नमः । ॐ दुरितघ्न्यै नमः । ॐ लक्ष्म्यै नमः । ॐ लज्जायै नमः । ॐ महाविद्यायै नमः । ॐ श्रद्धायै नमः । ॐ पुष्ट्यै नमः । ॐ स्वधायै नमः । ॐ ध्रुवायै नमः । १० ॐ महारात्र्यै नमः । ॐ महामायायै नमः । ॐ मेधायै नमः । ॐ मात्रे नमः । ॐ सरस्वत्यै नमः । ॐ शिवायै नमः । ॐ शशिधरायै नमः । ॐ शान्तायै नमः । ॐ शाम्भव्यै नमः । ॐ भूतिदायिन्यै नमः । २० ॐ तामस्यै नमः । ॐ नियतायै नमः । ॐ नार्यै नमः । ॐ काल्यै नमः । ॐ नारायण्यै नमः । ॐ कलायै नमः । ॐ ब्राह्म्यै नमः । ॐ वीणाधरायै नमः । ॐ वाण्यै नमः । ॐ शारदायै नमः । ३० ॐ हंसवाहिन्यै नमः । ॐ त्रिशूलिन्यै नमः । ॐ त्रिनेत्रायै नमः । ॐ ईशानायै नमः । ॐ त्रय्यै नमः । ॐ त्रयतमायै नमः । ॐ शुभायै नमः । ॐ शङ्खिन्यै नमः । ॐ चक्रिण्यै नमः । ॐ घोरायै नमः । ४० ॐ कराल्यै नमः । ॐ मालिन्यै नमः । ॐ मत्यै नमः । ॐ माहेश्वर्यै नमः । ॐ महेष्वासायै नमः । ॐ महिषघ्न्यै नमः । ॐ मधुव्रतायै नमः । ॐ मयूरवाहिन्यै नमः । ॐ नीलायै नमः । ॐ भारत्यै नमः । ५० ॐ भास्वराम्बरायै नमः । ॐ पीताम्बरधरायै नमः । ॐ पीतायै नमः । ॐ कौमार्यै नमः । ॐ पीवरस्तन्यै नमः । ॐ रजन्यै नमः । ॐ राधिन्यै नमः । ॐ रक्तायै नमः । ॐ गदिन्यै नमः । ॐ घण्टिन्यै नमः । ६० ॐ प्रभायै नमः । ॐ शुम्भघ्न्यै नमः । ॐ सुभगायै नमः । ॐ सुभ्रुवे नमः । ॐ निशुम्भप्राणहारिण्यै नमः । ॐ कामाक्ष्यै नमः । ॐ कामुकायै नमः । ॐ कन्यायै नमः । ॐ रक्तबीजनिपातिन्यै नमः । ॐ सहस्रवदनायै नमः । ७० ॐ सन्ध्यायै नमः । ॐ साक्षिण्यै नमः । ॐ शाङ्कर्यै नमः । ॐ द्युतये नमः । ॐ भार्गव्यै नमः । ॐ वारुण्यै नमः । ॐ विद्यायै नमः । ॐ धरायै नमः । ॐ धरासुरार्चितायै नमः । ॐ गायत्र्यै नमः । ८० ॐ गायक्यै नमः । ॐ गङ्गायै नमः । ॐ दुर्गायै नमः । ॐ गीतघनस्वनायै नमः । ॐ छन्दोमयायै नमः । ॐ मह्यै नमः । ॐ छायायै नमः । ॐ चार्वाङ्ग्यै नमः । ॐ चन्दनप्रियायै नमः । ॐ जनन्यै नमः । ९० ॐ जाह्नव्यै नमः । ॐ जातायै नमः । ॐ शान्ङ्कर्यै नमः । ॐ हतराक्षस्यै नमः । ॐ वल्लर्यै नमः । ॐ वल्लभायै नमः । ॐ वल्ल्यै नमः । ॐ वल्ल्यलङ्कृतमध्यमायै नमः । ॐ हरीतक्यै नमः । ॐ हयारूढायै नमः । १०० ॐ भूत्यै नमः । ॐ हरिहरप्रियायै नमः । ॐ वज्रहस्तायै नमः । ॐ वरारोहायै नमः । ॐ सर्वसिद्ध्यै नमः । ॐ वरप्रदायै नमः । ॐ सिन्दूरवर्णायै नमः । ॐ श्रीदुर्गादेव्यै नमः । १०८

इति श्रीदुर्गाष्टोत्तरशतनामावलिः समाप्ता । ॥ ॐ ॥

પાઠ જપ: 0/108