সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

Shri Durgashtottarashatanamavali 2

Shri Durgashtottarashatanamavali 2
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 2
23px

श्रीदुर्गाष्टोत्तरशतनामावलिः

ॐ दुर्गायै नमः । ॐ शिवायै नमः । ॐ महालक्ष्म्यै नमः । ॐ महागौर्यै नमः । ॐ चण्डिकायै नमः । ॐ सर्वज्ञायै नमः । ॐ सर्वालोकेशायै नमः । ॐ सर्वकर्मफलप्रदायै नमः । ॐ सर्वतीर्थमयायै नमः । ॐ पुण्यायै नमः । ॐ देवयोनये नमः । ॐ अयोनिजायै नमः । ॐ भूमिजायै नमः । ॐ निर्गुणायै नमः । ॐ आधारशक्त्यै नमः । ॐ अनीश्वरायै नमः । ॐ निर्गुणायै नमः । ॐ निरहङ्कारायै नमः । ॐ सर्वगर्वविमर्दिन्यै नमः । ॐ सर्वलोकप्रियायै नमः । २० ॐ वाण्यै नमः । ॐ सर्वविध्याधिदेवतायै नमः । ॐ पार्वत्यै नमः । ॐ देवमात्रे नमः । ॐ वनीशायै नमः । ॐ विन्ध्यवासिन्यै नमः । ॐ तेजोवत्यै नमः । ॐ महामात्रे नमः । ॐ कोटिसूर्यसमप्रभायै नमः । ॐ देवतायै नमः । ॐ वह्निरूपायै नमः । ॐ सदौजसे नमः । ॐ वर्णरूपिण्यै नमः । ॐ गुणाश्रयायै नमः । ॐ गुणमय्यै नमः । ॐ गुणत्रयविवर्जितायै नमः । ॐ कर्मज्ञानप्रदायै नमः । ॐ कान्तायै नमः । ॐ सर्वसंहारकारिण्यै नमः । ॐ धर्मज्ञानायै नमः । ४० ॐ धर्मनिष्ठायै नमः । ॐ सर्वकर्मविवर्जितायै नमः । ॐ कामाक्षायै नमः । ॐ कामसंहन्त्र्यै नमः । ॐ कामक्रोधविवर्जितायै नमः । ॐ शाङ्कर्यै नमः । ॐ शाम्भव्यै नमः । ॐ शान्तायै नमः । ॐ चन्द्रसुर्याग्निलोचनायै नमः । ॐ सुजयायै नमः । ॐ जयभूमिष्ठायै नमः । ॐ जाह्नव्यै नमः । ॐ जनपूजितायै नमः । ॐ शास्त्रायै नमः । ॐ शास्त्रमयायै नमः । ॐ नित्यायै नमः । ॐ शुभायै नमः । ॐ चन्द्रार्धमस्तकायै नमः । ॐ भारत्यै नमः । ॐ भ्रामर्यै नमः । ६० ॐ कल्पायै नमः । ॐ कराल्यै नमः । ॐ कृष्णपिङ्गलायै नमः । ॐ ब्राह्म्यै नमः । ॐ नारायण्यै नमः । ॐ रौद्रायै नमः । ॐ चन्द्रामृतपरिश्रुतायै नमः । ॐ ज्येष्ठायै नमः । ॐ इन्दिरायै नमः । ॐ महामायायै नमः । ॐ जगत्सृष्ट्यादिकारिण्यै नमः । ॐ ब्रह्माण्डकोटिसंस्थानायै नमः । ॐ कामिन्यै नमः । ॐ कमलालयायै नमः । ॐ कात्यायन्यै नमः । ॐ कलातीतायै नमः । ॐ कालसंहारकारिण्यै नमः । ॐ योगिनिष्ठायै नमः । ॐ योगिगम्यायै नमः । ॐ योगिध्येयायै नमः । ८० ॐ तपस्विन्यै नमः । ॐ ज्ञानरूपायै नमः । ॐ निराकारायै नमः । ॐ भक्ताभीष्टफलप्रदायै नमः । ॐ भूतात्मिकायै नमः । ॐ भूतमात्रे नमः । ॐ भूतेशायै नमः । ॐ भूतधारिण्यै नमः । ॐ स्वधानारीमध्यगतायै नमः । ॐ षडाधाराधिवर्तिन्यै नमः । ॐ मोहदायै नमः । ॐ अंशुभवायै नमः । ॐ शुभ्रायै नमः । ॐ सूक्ष्मायै नमः । ॐ मात्रायै नमः । ॐ निरालसायै नमः । ॐ निम्नगायै नमः । ॐ नीलसङ्काशायै नमः । ॐ नित्यानन्दायै नमः । ॐ हरायै नमः । १०० ॐ परायै नमः । ॐ सर्वज्ञानप्रदायै नमः । ॐ अनन्तायै नमः । ॐ सत्यायै नमः । ॐ दुर्लभरूपिण्यै नमः । ॐ सरस्वत्यै नमः । ॐ सर्वगतायै नमः । ॐ सर्वाभीष्टप्रदायिन्यै नमः । १०८

इति श्रीदुर्गाष्टोत्तरशतनामावलिः समाप्ता ।

পাঠ জপ: 0/108