సనాతన దేవ
Shri Durga Ashtottarashatanamavalih 1
Shri Durga Ashtottarashatanamavalih 1
లిపిని ఎంచుకోండి:
देवनागरी (संस्कृत)
श्रीदुर्गाष्टोत्तरशतनामावलिः
ॐ सत्यै नमः । ॐ साध्व्यै नमः । ॐ भवप्रीतायै नमः । ॐ भवान्यै नमः । ॐ भवमोचन्यै नमः । ॐ आर्यायै नमः । ॐ दुर्गायै नमः । ॐ जयायै नमः । ॐ आद्यायै नमः । ॐ त्रिनेत्रायै नमः । ॐ शूलधारिण्यै नमः । ॐ पिनाकधारिण्यै नमः । ॐ चित्रायै नमः । ॐ चण्डघण्टायै नमः । ॐ महातपायै नमः । ॐ मनरूपायै नमः । ॐ बुद्ध्यै नमः । ॐ अहङ्कारायै नमः । ॐ चित्तरूपायै नमः । ॐ चितायै नमः । २० ॐ चित्यै नमः । ॐ सर्वमन्त्रमय्यै नमः । ॐ सत्तायै नमः । ॐ सत्यानन्दस्वरूपिण्यै नमः । ॐ अनन्तायै नमः । ॐ भाविन्यै नमः । ॐ भाव्यायै नमः । ॐ भव्यायै नमः । ॐ अभव्यायै नमः । ॐ सदागत्यै नमः । ॐ शाम्भव्यै नमः । ॐ देवमात्रे नमः । ॐ चिन्तायै नमः । ॐ रत्नप्रियायैसदायै? नमः । ॐ सर्वविद्यायै नमः । ॐ दक्षकन्यायै नमः । ॐ दक्षयज्ञविनाशिन्यै नमः । ॐ अपर्णायै नमः । ॐ अनेकवर्णायै नमः । ॐ पाटलायै नमः । ४० ॐ पाटलावत्यै नमः । ॐ पट्टाम्बरपरीधानायै नमः । ॐ कलमञ्जीररञ्जिन्यै नमः । ॐ अमेयविक्रमायै नमः । ॐ क्रूरायै नमः । ॐ सुन्दर्यै नमः । ॐ सुरसुन्दर्यै नमः । ॐ वनदुर्गायै नमः । ॐ मातङ्ग्यै नमः । ॐ मतङ्गमुनिपूजितायै नमः । ॐ ब्राह्म्यै नमः । ॐ माहेश्वर्यै नमः । ॐ ऐन्द्र्यै नमः । ॐ कौमार्यै नमः । ॐ वैष्णव्यै नमः । ॐ चामुण्डायै नमः । ॐ वाराह्यै नमः । ॐ लक्ष्म्यै नमः । ॐ पुरुषाकृत्यै नमः । ॐ विमलायै नमः । ६० ॐ उत्कर्षिण्यै नमः । ॐ ज्ञानायै नमः । ॐ क्रियायै नमः । ॐ नित्यायै नमः । ॐ बुद्धिदायै नमः । ॐ बहुलायै नमः । ॐ बहुलप्रेमायै नमः । ॐ सर्ववाहनवाहनायै नमः । ॐ निशुम्भशुम्भहनन्यै नमः । ॐ महिषासुरमर्दिन्यै नमः । ॐ मधुकैटभहन्त्र्यै नमः । ॐ चण्डमुण्डविनाशिन्यै नमः । ॐ सर्वासुरविनाशायै नमः । ॐ सर्वदानवघातिन्यै नमः । ॐ सर्वशास्त्रमय्यै नमः । ॐ सत्यायै नमः । ॐ सर्वास्त्रधारिण्यै नमः । ॐ अनेकशस्त्रहस्तायै नमः । ॐ अनेकास्त्रधारिण्यै नमः । ॐ कुमार्यै नमः । ८० ॐ एककन्यायै नमः । ॐ कैशोर्यै नमः । ॐ युवत्यै नमः । ॐ यत्यै नमः । ॐ अप्रौढायै नमः । ॐ प्रौढायै नमः । ॐ वृद्धमात्रे नमः । ॐ बलप्रदायै नमः । ॐ महोदर्यै नमः । ॐ मुक्तकेश्यै नमः । ॐ घोररूपायै नमः । ॐ महाबलायै नमः । ॐ अग्निज्वालायै नमः । ॐ रौद्रमुख्यै नमः । ॐ कालरात्र्यै नमः । ॐ तपस्विन्यै नमः । ॐ नारायण्यै नमः । ॐ भद्रकाल्यै नमः । ॐ विष्णुमायायै नमः । ॐ जलोदर्यै नमः । १०० ॐ शिवदूत्यै नमः । ॐ कराल्यै नमः । ॐ अनन्तायै नमः । ॐ परमेश्वर्यै नमः । ॐ कात्यायन्यै नमः । ॐ सावित्र्यै नमः । ॐ प्रत्यक्षायै नमः । ॐ ब्रह्मवादिन्यै नमः । १०८॥ इति श्रीदुर्गाष्टोत्तरशतनामावलिः समाप्ता ॥