सनातन स्तोत्र एवं ग्रन्थ संग्रह
गीता
श्रीमद्भगवद्गीता • माहात्म्यम् • अध्याय 1
श्रीकृष्ण

श्रीमद्भगवद्गीतामाहात्म्यम्

Shreemadbhagavadgeetaamaahaatmyam
रचयिता: वेद व्यास ( लेखक ) पाठ संख्या: 17
23px

श्रीमद्भगवद्गीतामाहात्म्यम्

ॐ श्री परमात्मने नमः
गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान्।
विष्णोः पदमवाप्नोति भय-शोकादि-वर्जितः ॥१॥

गीताध्ययन-शीलस्य प्राणायाम-परस्य च।
नैव सन्ति हि पापानि पूर्व-जन्म-कृतानि च ॥२॥

मलनिर्मोचनं पुंसां जलस्नानं दिने दिने।
सकृद्गीताम्भसि स्नानं संसारमलनाशनम्॥३॥

गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता॥४॥

भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःसृतम्।
गीतागङ्गोदकं पीत्वा पुनर्जन्म न विद्यते॥५॥

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥६॥

एकं शास्त्रं देवकीपुत्रगीतम्
एको देवो देवकीपुत्र एव।
एको मन्त्रस्तस्य नामानि यानि
कर्माप्येकं तस्य देवस्य सेवा ॥७॥

॥ इति श्रीमद्भगवद्गीतामाहात्म्यम् ॥
पाठ जप: 0/108
प्रतिलिपि (Copy) भयो!