Shloka when making God sleep. ஶயன மங்க³லம்
॥ शयनआरती ॥
सच्चित्तशायी भुजगेन्द्रशायी नन्दाङ्गशायी कमलाङ्गशायी क्षीराब्धिशायी वटपत्रशायी । श्रीरङ्गशायी मम रक्षकोऽस्तु ॥ *
पन्नगाधीशपर्यङ्गे रमाहस्तोपधानके। सुखं शेष्व रमाधीश सुदर्शनसुरक्षितः॥ *
शंखचक्रगदाखड्गदिव्यायुधगणास्तथा। श्रीशरक्षाविधानाय सदा जागृत जागृत ॥ *
आयताभ्यां विशालाक्षं शीतलाभ्यां कृपानिधे। करुणापूर्णनेत्राभ्यां निद्रां कुरु जगत्पते ॥
शेषपर्यङ्गमारुह्य रमया सह हे प्रभो। निद्रां कुरुष्व भगवन् सुदर्शन सुरक्षित ॥
शयनं कुरु गोविन्द शयनं कुरु माधव । शयनं कमलाकान्त त्रैलोक्यं मङ्कलं कुरु ॥
क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन । यत्कृतं तु मया देव परिपूर्वणं तदस्तु ते ॥
उपचारापदेशेन कृतानहरहर्मया। अपचारान् इमान् सर्वान् क्षमस्व पुरुषोत्तम ॥
स्वस्ति प्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महीशाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्तास्सुखिनो भवन्तु ॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी। देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः ॥
कावेरी वर्धतां काले काले वर्षतु वासवः । श्रीरङ्गनाथो जयतु श्रीरङ्गश्रीश्च वर्धताम् ॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥
॥ अस्मद्गुरुभ्यो नमः॥ ॥ जय श्रीमन्नारायण॥