सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

Govindaraj Prapattih

govindaraj-prapattih
रचयिता: पारंपरिक पाठ संख्या: 3
23px

गोविन्दराजप्रपत्तिः

यश्चैकशैलनिकटे कमलापुरीश- गोविन्दराजपदयोरकरोत् प्रपत्तिम् । तं वादिभीकरगुरोश्चरणं प्रपद्ये पात्रं गुरुं वरवरं परमं गुरूणाम् ॥ १॥

श्रीमन् निदान जगतां निखिलाण्डजात- निर्वाहशक्तिमुखदिव्यगुणैकतान । अत्यन्तभोग्यनतदोष निरस्तदोष गोविन्दराज चरणौ शरणं प्रपद्ये ॥ २॥

रेखारथाङ्गसरसीरुहवज्रशङ्क- च्छत्राङ्कुशप्रभृतिमङ्गलचिह्नगर्भौ । संसारतापहरणे निपुणौ नतानां गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ३॥

पश्यत्सु सान्द्रभयकौतुकमर्भकेषु प्रौढेषु सत्सु कृतकृत्यपरायणेषु । विध्वंसितोर्ध्वशकटावपि बालभावे गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ४॥

आलम्ब्य बाहुयुगलेन कुमारभावे गाढं कराङ्गुलियुगं किल नन्दपत्न्याः । अभ्यस्यमानदशचङ्क्रमणाभिरामौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ५॥

घोषाङ्गनाकरसरोरुहतालनाद- सङ्गीतसम्पदनुरूपमनोज्ञनृत्तौ । माणिक्यनूपुरमरीचिकृताङ्गलेपौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ६॥

कुट्टाकतामुपगतौ सरसः प्रसह्य मध्येसरित्सलिलमुद्धतकालियस्य । तत्सुन्दरीनयननन्दनसंनिवेशौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ७॥

वासांसि देहि तव कृष्ण वशंवदाना- मस्माकमाकुलधियामिति गोपकन्याः । उद्दिश्य यौ विदधुरञ्जलिमा प्रसादाद् गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ८॥

गोरक्षणे किल बभूव यदीयरेणु- रक्रूरमस्तकमणेः सरणिं समेतः । तावद्भुतावनुपमावतिपावनौ ते गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ९॥

मल्लावहे मधुरया मधुराङ्गनानां फुल्लारविन्ददलतल्लजलोचनानाम् । वाण्या प्रशंसितपरार्ध्यगतिप्रकारौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥ १०॥

कंसं निपात्य कनकासनतः पृथिव्या- मुद्धृत्य सागसमनागसमुग्रसेनम् । राज्येऽभिषिच्य विनिवारितभूमिभारौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥ ११॥

दुर्योधने दुरभिमानिनि दुर्भगाणा- मग्रेसरे भजति ते शिरसः प्रदेशम् । धन्येन यन्निकटतः स्थितमर्जुनेन गोविन्दराज चरणौ शरणं प्रपद्ये ॥ १२॥

सारथ्यवेषसमलङ्कृतपाण्डुसूनो- र्युद्धाङ्गणोज्ज्वलरथाञ्चलसंनिवेशौ । सान्द्रेन्द्रनीलपरिभावुकभव्यरूपौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥ १३॥

भक्त्या प्रसन्नहृदयेन धनञ्जयेन यत्रार्चितानि कुसुमानि शिवोत्तमाङ्गे । साक्षात्कृतानि सहसाद्भुतवैभवौ तौ गोविन्दराज चरणौ शरणं प्रपद्ये ॥ १४॥

अस्मद्गुरुप्रभृतिभिः कमलावसानै- रादर्शितौ करुणया मम देशिकेन्द्रैः । सत्त्वोत्तरैः सकलजीवदयापरैस्तै- र्गोविन्दराज चरणौ शरणं प्रपद्ये ॥ १५॥

अस्मात्पितामहमशेषगुणाभिराम- माचार्यरत्नमयि वादिभयङ्करार्यम् । गोवर्धनाद्रिधृतिधारितगोप वीक्ष्य गोविन्दराज मम दुर्लपितं क्षमस्व ॥ १६॥

। इति श्रीगोविन्दराजप्रपत्तिः सम्पूर्णा ।

पाठ जप: 0/108