সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

শ্রী বেঙ্কটেশ প্রাতঃস্মরণং শ্লোকত্রয়ম্

श्री वेङ्कटेश प्रातःस्मरणं श्लोकत्रयम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 7
লিপি নির্বাচন করুন: देवनागरी (संस्कृत)
14px

Sri Venkatesha Pratah Smaraniya stotram वेङ्कटेश प्रातःस्मरणं श्लोकत्रयम्

प्रातः स्मरामि रमया सह वेङ्कटेशं मन्दस्मितं मुखसरोरुहकान्तिरम्यम् । माणिक्यकान्तिविलसन्मकुटोर्ध्वपुण्ड्रं पद्माक्षलक्ष्यमणिकुण्डलमण्डिताङ्गम् ॥ १॥

प्रातर्भजामि कररम्यसुशङ्खचक्रं भक्ताभयप्रदकटिस्थलदत्तपाणिम् । श्रीवत्सकौस्तुभलसन्मणिभूषणोद्यत् पीताम्बरं मदनकोटिसुमोहनाङ्गम् ॥ २॥

प्रातर्नमामि परमाद्य पदारविन्दं आनन्दसान्द्रनिलयं मणिनूपुराढ्यम् । एतत्समस्तजगतामिति दर्शयन्तं वैकुण्ठमत्र भजतां करपल्लवेन ॥ ३॥

श्लोकत्रयस्य पठनं दिनपूर्वकाले दुस्स्वप्नदुश्शकुनदुर्भयपापशान्त्यै । नित्यं करोति मतिमान्परमात्मरूपं श्रीवेङ्कटेशनिलयं व्रजति स्म योऽसौ ॥ श्रीः घनगुरवे नमः ।

॥ इति वेङ्कटेश प्रातःस्मरणं श्लोकत्रयम् ॥

পাঠ জপ: 0/108