সনাতন স্তোত্র মঞ্জরী
Stotram
সনাতন দেব

চিন্নশ্রীমন্নারায়ণরামানুজজীয়রস্বামিনাম্ অষ্টোত্তরশতনামস্তোত্রম্

चिन्नश्रीमन्नारायणरामानुजजीयरस्वामिनाम् अष्टोत्तरशतनामस्तोत्रम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 5
লিপি নির্বাচন করুন: देवनागरी (संस्कृत)
14px
चिन्नश्रीमन्नारायणरामानुजजीयरस्वामिनाम्

अष्टोत्तरशतनामस्तोत्रम्

श्रीमन्नारायणाचार्ययतीश्वरपदाश्रितः । गोपालाचार्यसान्निध्यलब्धविद्यामहानिधिः ॥

जीयर्शैक्षिकसंस्थानस्थापको वेदरक्षकः । भगवच्छास्त्रसंत्राता छात्रकल्पतरुर्महान् ॥

सहस्रकुण्डसद्यागनिर्वाहकुशलो गुणी । श्रीरामानुजसिद्धान्तप्रचारैकरतस्सुधीः ॥

त्रव्यंतार्थप्रतिष्ठाता तत्त्वबोधनतत्परः । चतुर्वेदपरित्राता बहुग्रंथप्रमुद्रकः ॥

सर्वसंशयविच्छेत्ता स्मयमानमुखांबुजः । यावद्भारतसत्तीर्थपावनीकृतसत्पदः ॥

श्रीमदष्टाक्षरीक्षेत्र व्यवस्थापरिवर्धकः । वेदान्तद्वयसत्पीठनिर्वाहनिपुणः सुधीः ॥

श्रीमद्विष्णुसहस्राख्यनामवैभवबोधकः । मंदसास्थानमहिमोद्धारकः सफलाशयः ॥

श्रीमद्भक्तिनिवेदाख्यपत्रिकाधिपतिर्गुरुः । गीताभाष्यादिसद्ग्रन्थनिगूढार्थोपदेशकः ॥

रामायणरहर्यार्थप्रबोधनपरायणः । वदान्यो मधुरालापो विनयादिविभूषितः ॥

शास्त्रज्ञः सत्यसङ्कल्पः सारासारविचक्षणः । विशिष्टाद्वैतसिद्धान्तप्रख्यापनधुरंधरः ॥

स्वाचार्यपादुकासेवानिरतो विपुलाशयः । श्रीसीतारामपादाब्जनित्याराधनसद्व्रतः ॥

शुभ्रोर्ध्वपुण्ड्रविलसल्ललाटो मधुरस्वरः । दिव्यसूरिप्रबन्धार्थव्याख्याता विजयी बुधः ॥

सर्ववैदिकसिद्धान्तसारांशग्रहणक्षमः । धाराप्रवाहवेदान्तशास्त्रज्ञानप्रबोधकः ॥

पादयात्राप्रचारी च वेदयात्राविधायकः । श्रीमन्मानसरोयात्रा निर्वाहनिपुणः स्थिरः ॥

जीवासंस्थाप्रतिष्ठाता वैद्यविद्याप्रवर्धकः । श्रीमज्जीयपुरस्कारप्रतिष्ठाता गुणालयः ॥

गोपालोपायनाभिख्यपुरस्कारप्रवर्तकः । वेदवेदान्तशास्त्रज्ञसम्मानैकपरायणः 

बाह्यदृष्टिविहीनानामुच्चविद्याप्रदायकः । देशांतरसुविख्यात भगवद्भक्तिगौरवः ॥

प्रज्ञापुस्तकनिर्माणप्रबोधितसुसंस्कृतिः । दिव्यसाकेतनिर्माता सत्समाजप्रवर्धकः ॥

जीयर्शताब्दिसंदर्भकृतभूरिमहोत्सवः । बहुभाषाविशेषज्ञः स्वाचार्यादृतमार्गगः ॥

नाथयामुनसिद्धान्तपरित्राणपरायणः । श्रीमुक्तिनाथसत्क्षेत्रयात्रा- पावितसज्जनः ॥

यादाद्रियदुगिर्यादितदीयाराधनोद्यतः । भूकंपादिमहादुःखमग्नानामवलंबकः ॥

विशालहृहयो धीमान् ज्ञानभक्त्यभिवर्षुकः । श्रीमद्गोधनसंत्राता गोसंवर्धनतत्परः॥

पूर्वाचार्यमहाग्रन्थरहस्योद्घाटनक्षमः । सच्छात्रनिलयो विद्वान् विद्यादानपरायणः ॥

प्रसन्नवदनो दान्तः सर्वभूतदयापरः । नदीपुष्करसंदर्भब्रह्मयज्ञविधायकः ॥

बहुशिष्यविनिर्माता बहुदेशप्रचारवान् । स्वाचार्यपरमाचार्यसद्वैभवप्रकाशकः ॥

रामानुज सहस्राब्दीमहोत्सवप्रवर्धकः । समतामूर्तिसंस्फूर्तिकेंद्रनिर्माणतत्परः॥

अंताराष्ट्रियसद्भक्तसंसेवितपदांबुजः । सौलभ्यगुणसंपन्नः सौशील्यगुणशेवधिः ॥

इतिहासपुराणादिव्याख्याग्रन्थसुमुद्रकः । मितभाषी मधुरवाक् वेदवाङ्मयरक्षकः ॥

मन्त्रमन्त्रार्थदो मान्यो माधवाङ्घ्रिसमाश्रितः । तुलास्वात्यवतीर्णोऽथ दीपावलिप्रभान्वितः॥

श्रीमद्विजयकीलाद्रिमंदिरस्थापकोत्तमः । रंगधामप्रतिष्ठाता बहुविद्यालयाधिपः ॥

श्रीजीयर्मठनिर्माता जगबंधुर्जयावहः । कृष्णमाचार्यवर्येण समर्पितमिदं मुदा अष्टोत्तरशतं नाम्नां यतीश्वरपदाब्जयोः ॥

तुलास्वात्यवतीर्णाय विश्वविख्यातकीर्तये । श्रीमन्नारायणाभिख्ययतिराजाय मंगलम् ॥

चिन्नश्रीमन्नारायणरामानुजजीयरस्वामिनां अष्टोत्तरशतनामस्तोत्रम्

পাঠ জপ: 0/108