সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

॥ বেদস্তুতি: ॥

॥ वेदस्तुति: ॥
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 5
লিপি নির্বাচন করুন: देवनागरी (संस्कृत)
23px

॥ वेदस्तुति: श्रीमद्भागवतपुराणे ॥

 

श्रीपरीक्षिदुवाच

ब्रह्मन्ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः । कथं चरन्ति श्रुतयः साक्षात्सदसतः परे ॥ १॥

श्रीशुक उवाच बुद्धीन्द्रियमनःप्राणान् जनानामसृजत्प्रभुः । मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ २॥

सैषा ह्युपनिषद्ब्राह्मी पूर्वेषां पूर्वजैर्धृता । श्रद्धया धारयेद्यस्तां क्षेमं गच्छेदकिञ्चनः ॥ ३॥

अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् । नारदस्य च संवादमृषेर्नारायणस्य च ॥ ४॥

एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः । सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ ५॥

यो वै भारतवर्षेऽस्मिन्क्षेमाय स्वस्तये नृणाम् । धर्मज्ञानशमोपेतमाकल्पादास्थितस्तपः ॥ ६॥

तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः । परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह ॥ ७॥

तस्मै ह्यवोचद्भगवानृषीणां शृण्वतामिदम् । यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥ ८॥

श्रीभगवानुवाच स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत्पुरा । तत्रस्थानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥ ९॥

श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् । ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते । तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि ॥ १०॥

तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः । अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ ११॥

श्रीसनन्दन उवाच स्वसृष्टमिदमापीय शयानं सह शक्तिभिः । तदन्ते बोधयांचक्रुस्तल्लिङ्गैः श्रुतयः परम् ॥ १२॥

यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः । प्रत्यूषेऽभेत्य सुश्लोकैर्बोधयन्त्यनुजीविनः ॥ १३॥

श्रुतय ऊचुः जय जय जह्यजामजित दोषगृभीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः । अगजगदोकसामखिलशक्त्यवबोधक ते क्वचिदजयात्मना च चरतोऽनुचरेन्निगमः ॥ १४॥

बृहदुपलब्धमेतदवयन्त्यवशेषतया यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १५॥

इति तव सूरयस्त्र्यधिपतेऽखिललोकमल- क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः । किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १६॥

दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा महदहमादयोऽण्डमसृजन्यदनुग्रहतः । पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥ १७॥

उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः परिसरपद्धतिं हृदयमारुणयो दहरम् । तत उदगादनन्त तव धाम शिरः परमं पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे ॥ १८॥

स्वकृतविचित्रयोनिषु विशन्निव हेतुतया तरतमतश्चकास्स्यनलवत्स्वकृतानुकृतिः । अथ वितथास्वमूष्ववितथं तव धाम समं विरजधियोऽन्वयन्त्यभिविपण्यव एकरसम् ।।१९॥

स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं तव पुरुषं वदन्त्यखिलशक्तिधृतोऽंशकृतम् । इति नृगतिं विविच्य कवयो निगमावपनं भवत उपासतेऽङ्घ्रिमभवम्भुवि विश्वसिताः ॥ २०॥

दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश्- चरितमहामृताब्धिपरिवर्तपरिश्रमणाः । न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ २१॥

त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवच्- चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च । न बत रमन्त्यहो असदुपासनयात्महनो-  यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः ॥ २२॥

निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यन्- मुनय उपासते तदरयोऽपि ययुः स्मरणात् । स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो-  वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥ २३॥

क इह नु वेद बतावरजन्मलयोऽग्रसरं यत उदगादृषिर्यमनु देवगणा उभये । तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥ २४॥

जनिमसतः सतो मृतिमुतात्मनि ये च भिदां  विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः । त्रिगुणमयः पुमानिति भिदा यदबोधकृता त्वयि न ततः परत्र स भवेदवबोधरसे ॥ २५॥

सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात् सदभिमृशन्त्यशेषमिदमात्मतयात्मविदः । न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ २६॥

तव परि ये चरन्त्यखिलसत्त्वनिकेततया  त उत पदाक्रमन्त्यविगणय्य शिरो निरृतेः । परिवयसे पशूनिव गिरा विबुधानपि तांस्-  त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥ २७॥

त्वमकरणः स्वराडखिलकारकशक्तिधरस्-  तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः । वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥ २८॥

स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो  विहर उदीक्षया यदि परस्य विमुक्त ततः । न हि परमस्य कश्चिदपरो न परश्च भवेद्  वियत इवापदस्य तव शून्यतुलां दधतः ॥ २९॥

अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगतास्- तर्हि न शास्यतेति नियमो ध्रुव नेतरथा । अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत् सममनुजानतां यदमतं मतदुष्टतया ॥ ३०॥

न घटत उद्भवः प्रकृतिपूरुषयोरजयोर् उभययुजा भवन्त्यसुभृतो जलबुद्बुदवत् । त्वयि त इमे ततो विविधनामगुणैः परमे सरित इवार्णवे मधुनि लिल्युरशेषरसाः ॥ ३१॥

नृषु तव मायया भ्रमममीष्ववगत्य भृशं त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् । कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः सृजति मुहुस्त्रिनेमिरभवच्छरणेषु भयम् ॥ ३२॥

विजितहृषीकवायुभिरदान्तमनस्तुरगं य इह यतन्ति यन्तुमतिलोलमुपायखिदः । व्यसनशतान्विताः समवहाय गुरोश्चरणं वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ ३३॥

स्वजनसुतात्मदारधनधामधरासुरथैस्- त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे । इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥ ३४॥

भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदास्- त उत भवत्पदाम्बुजहृदोऽघभिदङ्घ्रिजलाः । दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान् ॥३५॥

सत इदमुत्थितं सदिति चेन्ननु तर्कहतं व्यभिचरति क्व च क्व च मृषा न तथोभययुक् । व्यवहृतये विकल्प इषितोऽन्धपरम्परया भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥ ३६॥

न यदिदमग्र आस न भविष्यदतो निधनाद्-  अनु मितमन्तरा त्वयि विभाति मृषैकरसे । अत उपमीयते द्रविणजातिविकल्पपथै र्वितथमनोविलासमृतमित्यवयन्त्यबुधाः ॥३७॥

स यदजया त्वजामनुशयीत गुणांश्च जुषन्  भजति सरूपतां तदनु मृत्युमपेतभगः । त्वमुत जहासि तामहिरिव त्वचमात्तभगो महसि महीयसेऽष्टगुणितेऽपरिमेयभगः ॥ ३८॥

यदि न समुद्धरन्ति यतयो हृदि कामजटा दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः । असुतृपयोगिनामुभयतोऽप्यसुखं भगवन् अनपगतान्तकादनधिरूढपदाद्भवतः ॥ ३९॥

त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयो र्गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः । अनुयुगमन्वहं सगुण गीतपरम्परया श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः ॥ ४०॥

द्युपतय एव ते न ययुरन्तमनन्ततया त्वमपि यदन्तराण्डनिचया ननु सावरणाः । ख इव रजांसि वान्ति वयसा सह यच्छ्रुतयस्- त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥ ४१॥

श्रीभगवानुवाच इत्येतद्ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् ।  सनन्दनमथानर्चुः सिद्धा ज्ञात्वात्मनो गतिम् ॥ ४२॥

इत्यशेषसमाम्नाय पुराणोपनिषद्रसः । समुद्धृतः पूर्वजातैर्व्योमयानैर्महात्मभिः ॥ ४३॥

त्वं चैतद्ब्रह्मदायाद श्रद्धयात्मानुशासनम् । धारयंश्चर गां कामं कामानां भर्जनं नृणाम् ॥ ४४॥

श्रीशुक उवाच एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् । पूर्णः श्रुतधरो राजन्नाह वीरव्रतो मुनिः ॥ ४५॥

श्रीनारद उवाच नमस्तस्मै भगवते कृष्णायामलकीर्तये । यो धत्ते सर्वभूतानामभवायोशतीः कलाः ॥ ४६॥

इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः । ततोऽगादाश्रमं साक्षात्पितुर्द्वैपायनस्य मे ॥ ४७॥

सभाजितो भगवता कृतासनपरिग्रहः । तस्मै तद्वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८॥

इत्येतद्वर्णितं राजन्यन्नः प्रश्नः कृतस्त्वया । यथा ब्रह्मण्यनिर्देश्ये निर्गुणेऽपि मनश्चरेत् ॥ ४९॥

योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः । यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५०॥

॥ इति वेदकृता भगवद्स्तुति:॥

পাঠ জপ: 0/108