সনাতন স্তোত্র মঞ্জরী
Aadi Shankaracharya
সনাতন দেব

॥ উমামহেশ্বরস্তোত্রম্ ॥

॥ उमामहेश्वरस्तोत्रम् ॥
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 10
লিপি নির্বাচন করুন: देवनागरी (संस्कृत)
23px

नमः शिवाभ्यां नवयौवनाभ्याम्‌ परस्पराश्लिष्टवपुर्धराभ्याम्‌। नगेन्द्रकन्यावृषकेतनाभ्याम्‌ नमो नमः शङ्करपार्वतीभ्याम्‌॥ १॥

नमः शिवाभ्यां सरसोत्सवाभ्याम्‌ नमस्कृताभीष्टवरप्रदाभ्याम्‌। नारायणेनार्चितपादुकाभ्याम् नमो नमः शङ्करपार्वतीभ्याम्‌॥ २॥

नमः शिवाभ्यां वृषवाहनाभ्याम्‌ विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम्‌। विभूतिपाटीरविलेपनाभ्याम्‌ नमो नमः शङ्करपार्वतीभ्याम्‌॥ ३॥

नमः शिवाभ्यां जगदीश्वराभ्याम् जगत्पतिभ्यां जयविग्रहाभ्याम्‌। जम्भारिमुख्यैरभिवन्दिताभ्याम्‌ नमो नमः शङ्करपार्वतीभ्याम्‌॥ ४॥

नमः शिवाभ्यां परमौषधाभ्याम्‌ पञ्चाक्षरी-पञ्जररञ्जिताभ्याम्‌। प्रपञ्च-सृष्टि-स्थिति-संहृताभ्याम्‌ नमो नमः शङ्करपार्वतीभ्याम्‌॥ ५॥

नमः शिवाभ्यामतिसुन्दराभ्याम्‌ अत्यन्तमासक्तहृदम्बुजाभ्याम्‌। अशेषलोकैकहितङ्कराभ्याम्‌ नमो नमः शङ्करपार्वतीभ्याम्‌॥ ६॥

नमः शिवाभ्यां कलिनाशनाभ्याम्‌ कङ्कालकल्याणवपुर्धराभ्याम्‌। कैलासशैलस्थितदेवताभ्याम्‌ नमो नमः शङ्करपार्वतीभ्याम्‌॥ ७॥

नमः शिवाभ्यामशुभापहाभ्याम्‌ अशेषलोकैकविशेषिताभ्याम्‌। अकुण्ठिताभ्यां स्मृतिसम्भृताभ्याम्‌ नमो नमः शङ्करपार्वतीभ्याम्‌॥ ८॥

नमः शिवाभ्यां रथवाहनाभ्याम्‌ रवीन्दुवैश्वानरलोचनाभ्याम्‌। राका-शशाङ्काभ-मुखाम्बुजाभ्याम्‌ नमो नमः शङ्करपार्वतीभ्याम्‌॥ ९॥

नमः शिवाभ्यां जटिलन्धराभ्याम्‌ जरामृतिभ्यां च विवर्जिताभ्याम्‌। जनार्दनाब्जोद्भवपूजिताभ्याम्‌ नमो नमः शङ्करपार्वतीभ्याम्‌॥ १०॥

नमः शिवाभ्यां विषमेक्षणाभ्याम्‌ बिल्वच्छदामल्लिकदामभृद्‌भ्याम्‌। शोभावती-शान्तवतीश्वराभ्याम्‌ नमो नमः शङ्करपार्वतीभ्याम्‌॥ ११॥

नमः शिवाभ्यां पशुपालकाभ्याम्‌ जगत्त्रयीरक्षण-बद्धहृद्‌भ्याम्‌। समस्तदेवासुरपूजिताभ्याम्‌ नमो नमः शङ्करपार्वतीभ्याम्‌॥ १२॥

स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्याम्‌ भक्त्या पठेद्-द्वादशकं नरो यः। स सर्वसौभाग्य-फलानि भुङ्क्ते शतायुरन्ते शिवलोकमेति॥ १३॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं श्री उमामहेश्वरस्तोत्रं सम्पूर्णम्‌॥

পাঠ জপ: 0/108