সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

॥ শ্রীগণেশগীতাসারস্তোত্রম্ ॥

॥ श्रीगणेशगीतासारस्तोत्रम् ॥
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 8
লিপি নির্বাচন করুন: देवनागरी (संस्कृत)
14px

श्रीगणेशगीतासारस्तोत्रम्

श्री गणेशाय नमः । शिव उवाच । गणेशवचनं श्रुत्वा प्रणता भक्तिभावतः । पप्रच्छुस्तं पुनः शान्ता ज्ञानं ब्रूहि गजानन ॥ १॥ गणेश उवाच । देहश्चतुर्विधः प्रोक्तस्त्वंपदं ब्रह्मभिन्नतः । सोऽहं देहि चतुर्धा तत्पदं ब्रह्म सदैकतः ॥ २॥ संयोग उभयोर्यच्चासिपदं ब्रह्म कथ्यते । स्वत उत्थानकं देवा विकल्पकरणात्रिधा ॥ ३॥ सदा स्वसुखनिष्ठं यद्ब्रह्म सांख्यं प्रकीर्तितम् । परतश्चोत्थानकं तत् क्रीडाहीनतया परम् ॥ ४॥ स्वतः परत उत्थानहीनं यद्ब्रह्म कथ्यते । स्वानन्दः सकलाभेदरूपः संयोगकारकः ॥ ५॥ तदेव पञ्चधा जातं तन्निबोधत ईश्वराः । स्वतश्च परतो ब्रह्मोत्थानं यत्रिविधं स्मृतम् ॥ ६॥ ब्रह्मणो नाम तद्वेदे कथ्यते भिन्नभावतः । तयोरनुभवो यश्च योगिनां हृदि जायते ॥ ७॥ रूपं तदेव ज्ञातव्यमसद्वेदेषु कथ्यते । सा शक्तिरियमाख्याता ब्रह्मरूपा ह्यसन्मयी ॥ ८॥ तत्रामृतमयाधारः सूर्य आत्मा प्रकथ्यते । शक्तिसूर्यमयो विष्णुश्चिदानन्दात्मको हि सः ॥ ९॥ त्रिविधेषु तदाकारस्तत्क्रियाहीनरूपकः । नेति शिवश्चतुर्थोऽयं त्रिनेति कारकात्परः ॥ १०॥ त्रिविधं मोहमात्रं यन्निर्मोहस्तु सदाशिवः । तेषामभेदे यद्ब्रह्म स्वानन्दः सर्वयोगकः ॥ ११॥ पञ्चानां ब्रह्मणां यच्च बिम्बं मायामयं स्मृतम् । ब्रह्मा तदेव विज्ञेयः सर्वादिः सर्वभावतः ॥ १२॥ बिम्बेन सकलं सृष्टं तेनायं प्रपितामहः । असत्सत्सदसच्चेति स्वानन्दरूपा वयं स्मृताः ॥ १३॥ स्वानन्दाद्यत्परं ब्रह्मयोगाख्यं ब्रह्मणां भवेत् । केषामपि प्रवेशो न तत्र तस्यापि कुत्रचित् ॥ १४॥ मदीयं दर्शनं तत्र योगेन योगिनां भवेत् । स्वानन्दे दर्शनं प्राप्तं स्वसंवेद्यात्मकं च मे ॥ १५॥ तेन स्वानन्द आसीनं वेदेषु प्रवदन्ति माम् । चतुर्णां ब्रह्मणां योगात्संयोगाभेदयोगतः ॥ १६॥ संयोगश्च ह्ययोगश्च तयोः परतयोर्मतः । पूर्णशान्तिप्रदो योगश्चित्तवृत्तिनिरोधतः ॥ १७॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । पञ्चभूमिमयं चित्तं तत्र चिन्तामणिः स्थितः ॥ १८॥ पञ्चभूतनिरोधेन प्राप्यते योगिभिर्हृदि । शान्तिरूपात्मयोगेन ततः शान्तिर्मदात्मिका ॥ १९॥ एतद्योगात्मकं ज्ञानं गाणेशं कथितं मया । नित्यं युञ्जन्त योगेन नैव मोहं प्रगच्छत ॥ २०॥ चित्तरूपा स्वयं बुद्धिः सिद्धिर्मोहमयी स्मृता । नानाब्रह्मविभेदेन ताभ्यां क्रीडति तत्पतिः ॥ २१॥ त्यक्त्वा चिन्ताभिमानं ये गणेशोऽहंसमाधिना । भविष्यथ भवन्तोऽपि मद्रूपा मोहवर्जिताः ॥ २२॥ शिव उवाच । इत्युक्त्वा विररामाथ गणेशो भक्तवत्सलः । तेऽपि भेदं परित्यज्य शान्तिं प्राप्ताश्च तत्क्षणात् ॥ २३॥ एकविंशतिश्लोकैस्तैर्गणेशेन प्रकीर्तितम् । गीतासारं सुशान्तेभ्यः शान्तिदं योगसाधनैः ॥ २४॥ गणेशगीतासारं च यः पठिष्यति भावतः । श्रोष्यति श्रद्दधानश्चेद्ब्रह्मभूतसमो भवेत् ॥ २५॥ इह भुक्त्वाऽखिलान्भोगानन्ते योगमयो भवेत् । दर्शनात्तस्य लोकानां सर्वपापं लयं व्रजेत् ॥ २६॥ इति मुद्गलपुराणोक्तं गणेशगीतासारस्तोत्रम्
পাঠ জপ: 0/108