সনাতন স্তোত্র মঞ্জরী
Others Namawali
সনাতন দেব

॥ শ্রীললিতাত্রিশতীনামাবলিঃ॥

॥ श्रीललितात्रिशतीनामावलिः॥
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 7
লিপি নির্বাচন করুন: देवनागरी (संस्कृत)
14px

श्री ललिता त्रिशतीनामावलिः

ॐ ककाररूपायै नमः   ॐ कल्याण्यै नमः ॐ कल्याणगुणशालिन्यै नमः ॐ कल्याणशैलनिलयायै नमः ॐ कमनीयायै नमः ॐ कलावत्यै नमः ॐ कमलाक्ष्यै नमः ॐ कल्मषघ्न्यै नमः ॐ करुणामृतसागरायै नमः ॐ कदम्बकाननावासायै नमः ॐ कदम्बकुसुमप्रियायै नमः ॐ कन्दर्पविद्यायै नमः ॐ कन्दर्प-जनकापाङ्ग-वीक्षणायै नमः ॐ कर्पूरवीटि-सौरभ्य-कल्लोलित-ककुप्तटायै नमः ॐ कलिदोषहरायै नमः ॐ कञ्जलोचनायै नमः ॐ कम्रविग्रहायै नमः ॐ कर्मादिसाक्षिण्यै नमः ॐ कारयित्र्यै नमः ॐ कर्मफलप्रदायै नमः ॐ एकाररूपायै नमः ॐ एकाक्षर्यै नमः ॐ एकानेकाक्षराकृत्यै नमः ॐ एतत्तदित्यनिर्देश्यायै नमः ॐ एकानन्द-चिदाकृत्यै नमः ॐ एवमित्यागमाबोध्यायै नमः ॐ एकभक्ति-मदर्चितायै नमः ॐ एकाग्रचित्त-निर्ध्यातायै नमः ॐ एषणा-रहितादृतायै नमः ॐ एलासुगन्धिचिकुरायै नमः ॐ एनःकूटविनाशिन्यै नमः ॐ एकभोगायै नमः ॐ एकरसायै नमः ॐ एकैश्वर्य-प्रदायिन्यै नमः ॐ एकातपत्र-साम्राज्य-प्रदायै नमः ॐ एकान्तपूजितायै नमः ॐ एधमानप्रभायै नमः ॐ एजदनेकजगदीश्वर्यै नमः ॐ एकवीरादि-संसेव्यायै नमः ॐ एकप्राभव-शालिन्यै नमः ॐ ईकाररूपायै नमः ॐ ईशित्र्यै नमः ॐ ईप्सितार्थ-प्रदायिन्यै नमः ॐ ईदृगित्य-विनिर्देश्यायै नमः ॐ ईश्वरत्व-विधायिन्यै नमः ॐ ईशानादि-ब्रह्ममय्यै नमः ॐ ईशित्वाद्यष्टसिद्धिदायै नमः ॐ ईक्षित्र्यै नमः ॐ ईक्षण-सृष्टाण्ड-कोट्यै नमः ॐ ईश्वर-वल्लभायै नमः ॐ ईडितायै नमः ॐ ईश्वरार्धाङ्ग-शरीरायै नमः ॐ ईशाधि-देवतायै नमः ॐ ईश्वर-प्रेरणकर्यै नमः ॐ ईशताण्डव-साक्षिण्यै नमः ॐ ईश्वरोत्सङ्ग-निलयायै नमः ॐ ईतिबाधा-विनाशिन्यै नमः ॐ ईहाविरहितायै नमः ॐ ईशशक्त्यै नमः ॐ ईषत्-स्मिताननायै नमः ॐ लकाररूपायै नमः ॐ ललितायै नमः ॐ लक्ष्मी-वाणी-निषेवितायै नमः ॐ लाकिन्यै नमः ॐ ललनारूपायै नमः ॐ लसद्दाडिम-पाटलायै नमः ॐ ललन्तिकालसत्फालायै नमः ॐ ललाट-नयनार्चितायै नमः ॐ लक्षणोज्ज्वल-दिव्याङ्ग्यै नमः ॐ लक्षकोट्यण्ड-नायिकायै नमः ॐ लक्ष्यार्थायै नमः ॐ लक्षणागम्यायै नमः ॐ लब्धकामायै नमः ॐ लतातनवे नमः ॐ ललामराजदलिकायै नमः ॐ लम्बिमुक्तालताञ्चितायै नमः ॐ लम्बोदर-प्रसुवे नमः ॐ लभ्यायै नमः ॐ लज्जाढ्यायै नमः ॐ लयवर्जितायै नमः ॐ ह्रीङ्काररूपायै नमः ॐ ह्रीङ्कारनिलयायै नमः ॐ ह्रीम्पदप्रियायै नमः ॐ ह्रीङ्कारबीजायै नमः ॐ ह्रीङ्कारमन्त्रायै नमः ॐ ह्रीङ्कारलक्षणायै नमः ॐ ह्रीङ्कारजपसुप्रीतायै नमः ॐ ह्रीम्मत्यै नमः ॐ ह्रींविभूषणायै नमः ॐ ह्रींशीलायै नमः ॐ ह्रीम्पदाराध्यायै नमः ॐ ह्रीङ्गर्भायै नमः ॐ ह्रीम्पदाभिधायै नमः ॐ ह्रीङ्कारवाच्यायै नमः ॐ ह्रीङ्कारपूज्यायै नमः ॐ ह्रीङ्कारपीठिकायै नमः ॐ ह्रीङ्कारवेद्यायै नमः ॐ ह्रीङ्कारचिन्त्यायै नमः ॐ ह्रीं नमः ॐ ह्रीं-शरीरिण्यै नमः ॐ हकाररूपायै नमः ॐ हलधृक्पूजितायै नमः ॐ हरिणेक्षणायै नमः ॐ हरप्रियायै नमः ॐ हराराध्यायै नमः ॐ हरिब्रह्मेन्द्रवन्दितायै नमः ॐ हयारूढा-सेविताङ्घ्र्यै नमः ॐ हयमेध-समर्चितायै नमः ॐ हर्यक्षवाहनायै नमः ॐ हंसवाहनायै नमः ॐ हतदानवायै नमः ॐ हत्यादिपापशमन्यै नमः ॐ हरिदश्वादि-सेवितायै नमः ॐ हस्तिकुम्भोत्तुङ्गकुचायै नमः ॐ हस्तिकृत्ति-प्रियाङ्गनायै नमः ॐ हरिद्राकुङ्कुमादिग्धायै नमः ॐ हर्यश्वाद्यमरार्चितायै नमः ॐ हरिकेशसख्यै नमः ॐ हादिविद्यायै नमः ॐ हालामदालसायै नमः ॐ सकाररूपायै नमः ॐ सर्वज्ञायै नमः ॐ सर्वेश्यै नमः ॐ सर्वमङ्गलायै नमः ॐ सर्वकर्त्र्यै नमः ॐ सर्वभर्त्र्यै नमः ॐ सर्वहन्त्र्यै नमः ॐ सनातनायै नमः ॐ सर्वानवद्यायै नमः ॐ सर्वाङ्गसुन्दर्यै नमः ॐ सर्वसाक्षिण्यै नमः ॐ सर्वात्मिकायै नमः ॐ सर्वसौख्यदात्र्यै नमः ॐ सर्वविमोहिन्यै नमः ॐ सर्वाधारायै नमः ॐ सर्वगतायै नमः ॐ सर्वावगुणवर्जितायै नमः ॐ सर्वारुणायै नमः ॐ सर्वमात्रे नमः ॐ सर्वभूषण-भूषितायै नमः ॐ ककारार्थायै नमः ॐ कालहन्त्र्यै नमः ॐ कामेश्यै नमः ॐ कामितार्थदायै नमः ॐ कामसञ्जीवन्यै नमः ॐ कल्यायै नमः ॐ कठिनस्तन-मण्डलायै नमः ॐ करभोरवे नमः ॐ कलानाथ-मुख्यै नमः ॐ कचजिताम्बुदायै नमः ॐ कटाक्षस्यन्दि-करुणायै नमः ॐ कपालि-प्राणनायिकायै नमः ॐ कारुण्य-विग्रहायै नमः ॐ कान्तायै नमः ॐ कान्तिधूत-जपावल्यै नमः ॐ कलालापायै नमः ॐ कम्बुकण्ठ्यै नमः ॐ करनिर्जित-पल्लवायै नमः ॐ कल्पवल्ली-समभुजायै नमः ॐ कस्तूरी-तिलकाञ्चितायै नमः ॐ हकारार्थायै नमः ॐ हंसगत्यै नमः ॐ हाटकाभरणोज्ज्वलायै नमः ॐ हारहारि-कुचाभोगायै नमः ॐ हाकिन्यै नमः ॐ हल्यवर्जितायै नमः ॐ हरित्पति-समाराध्यायै नमः ॐ हठात्कार-हतासुरायै नमः ॐ हर्षप्रदायै नमः ॐ हविर्भोक्त्र्यै नमः ॐ हार्दसन्तमसापहायै नमः ॐ हल्लीसलास्य-सन्तुष्टायै नमः ॐ हंसमन्त्रार्थ-रूपिण्यै नमः ॐ हानोपादान-निर्मुक्तायै नमः ॐ हर्षिण्यै नमः ॐ हरिसोदर्यै नमः ॐ हाहाहूहू-मुख-स्तुत्यायै नमः ॐ हानि-वृद्धि-विवर्जितायै नमः ॐ हय्यङ्गवीन-हृदयायै नमः ॐ हरिगोपारुणांशुकायै नमः ॐ लकाराख्यायै नमः ॐ लतापूज्यायै नमः ॐ लयस्थित्युद्भवेश्वर्यै नमः ॐ लास्य-दर्शन-सन्तुष्टायै नमः ॐ लाभालाभ-विवर्जितायै नमः ॐ लङ्घ्येतराज्ञायै नमः ॐ लावण्य-शालिन्यै नमः ॐ लघु-सिद्धिदायै नमः ॐ लाक्षारस-सवर्णाभायै नमः ॐ लक्ष्मणाग्रज-पूजितायै नमः ॐ लभ्येतरायै नमः ॐ लब्धभक्ति-सुलभायै नमः ॐ लाङ्गलायुधायै नमः ॐ लग्न-चामर-हस्त-श्री-शारदा-परिवीजितायै नमः ॐ लज्जापद-समाराध्यायै नमः ॐ लम्पटायै नमः ॐ लकुलेश्वर्यै नमः ॐ लब्धमानायै नमः ॐ लब्धरसायै नमः ॐ लब्धसम्पत्समुन्नत्यै नमः ॐ ह्रीङ्कारिण्यै नमः ॐ ह्रीङ्काराद्यायै नमः ॐ ह्रीम्मध्यायै नमः ॐ ह्रींशिखामण्यै नमः ॐ ह्रीङ्कार-कुण्डाग्नि-शिखायै नमः ॐ ह्रीङ्कार-शशिचन्द्रिकायै नमः ॐ ह्रीङ्कार-भास्कररुच्यै नमः ॐ ह्रीङ्काराम्भोद-चञ्चलायै नमः ॐ ह्रीङ्कार-कन्दाङ्कुरिकायै नमः ॐ ह्रीङ्कारैक-परायणायै नमः ॐ ह्रीङ्कार-दीर्घिकाहंस्यै नमः ॐ ह्रीङ्कारोद्यान-केकिन्यै नमः ॐ ह्रीङ्कारारण्य-हरिण्यै नमः ॐ ह्रीङ्कारावाल-वल्लर्यै नमः ॐ ह्रीङ्कार-पञ्जरशुक्यै नमः ॐ ह्रीङ्काराङ्गण-दीपिकायै नमः ॐ ह्रीङ्कार-कन्दरा-सिंह्यै नमः ॐ ह्रीङ्काराम्भोज-भृङ्गिकायै नमः ॐ ह्रीङ्कार-सुमनो-माध्व्यै नमः ॐ ह्रीङ्कार-तरुमञ्जर्यै नमः ॐ सकाराख्यायै नमः ॐ समरसायै नमः ॐ सकलागम-संस्तुतायै नमः ॐ सर्ववेदान्त-तात्पर्यभूम्यै नमः ॐ सदसदाश्रयायै नमः ॐ सकलायै नमः ॐ सच्चिदानन्दायै नमः ॐ साध्यायै नमः ॐ सद्गतिदायिन्यै नमः ॐ सनकादिमुनिध्येयायै नमः ॐ सदाशिव-कुटुम्बिन्यै नमः ॐ सकलाधिष्ठान-रूपायै नमः ॐ सत्यरूपायै नमः ॐ समाकृत्यै नमः ॐ सर्वप्रपञ्च-निर्मात्र्यै नमः ॐ समानाधिक-वर्जितायै नमः ॐ सर्वोत्तुङ्गायै नमः ॐ सङ्गहीनायै नमः ॐ सगुणायै नमः ॐ सकलेष्टदायै नमः ॐ ककारिण्यै नमः ॐ काव्यलोलायै नमः ॐ कामेश्वरमनोहरायै नमः ॐ कामेश्वर-प्राणनाड्यै नमः ॐ कामेशोत्सङ्गवासिन्यै नमः ॐ कामेश्वरालिङ्गिताङ्ग्यै नमः ॐ कामेश्वर-सुखप्रदायै नमः ॐ कामेश्वर-प्रणयिन्यै नमः ॐ कामेश्वर-विलासिन्यै नमः ॐ कामेश्वर-तपःसिद्ध्यै नमः ॐ कामेश्वर-मनःप्रियायै नमः ॐ कामेश्वर-प्राणनाथायै नमः ॐ कामेश्वर-विमोहिन्यै नमः ॐ कामेश्वर-ब्रह्मविद्यायै नमः ॐ कामेश्वर-गृहेश्वर्यै नमः ॐ कामेश्वराह्लादकर्यै नमः ॐ कामेश्वर-महेश्वर्यै नमः ॐ कामेश्वर्यै नमः ॐ कामकोटिनिलयायै नमः ॐ काङ्क्षितार्थदायै नमः ॐ लकारिण्यै नमः ॐ लब्धरूपायै नमः ॐ लब्धधियै नमः ॐ लब्ध-वाञ्चितायै नमः ॐ लब्धपाप-मनोदूरायै नमः ॐ लब्धाहङ्कार-दुर्गमायै नमः ॐ लब्धशक्त्यै नमः ॐ लब्धदेहायै नमः ॐ लब्धैश्वर्यसमुन्नत्यै नमः ॐ लब्धवृद्ध्यै नमः ॐ लब्धलीलायै नमः ॐ लब्धयौवनशालिन्यै नमः ॐ लब्धातिशय-सर्वाङ्ग-सौन्दर्यायै नमः ॐ लब्धविभ्रमायै नमः ॐ लब्धरागायै नमः ॐ लब्धपत्यै नमः ॐ लब्ध-नानागमस्थित्यै नमः ॐ लब्धभोगायै नमः ॐ लब्धसुखायै नमः ॐ लब्धहर्षाभिपूरितायै नमः ॐ ह्रीङ्कार-मूर्त्यै नमः ॐ ह्रीङ्कार-सौधशृङ्गकपोतिकायै नमः ॐ ह्रीङ्कार-दुग्धाब्धि-सुधायै नमः ॐ ह्रीङ्कार-कमलेन्दिरायै नमः ॐ ह्रीङ्कार-मणिदीपार्च्यै नमः ॐ ह्रीङ्कार-तरुशारिकायै नमः ॐ ह्रीङ्कार-पेटक-मण्यै नमः ॐ ह्रीङ्कारादर्श-बिम्बितायै नमः ॐ ह्रीङ्कार-कोशासिलतायै नमः ॐ ह्रीङ्कारास्थान-नर्तक्यै नमः ॐ ह्रीङ्कार-शुक्तिका-मुक्तामण्यै नमः ॐ ह्रीङ्कार-बोधितायै नमः ॐ ह्रीङ्कारमय-सौवर्णस्तम्भ-विद्रुम-पुत्रिकायै नमः ॐ ह्रीङ्कार-वेदोपनिषदे नमः ॐ ह्रीङ्काराध्वर-दक्षिणायै नमः ॐ ह्रीङ्कार-नन्दनाराम-नवकल्पक-वल्लर्यै नमः ॐ ह्रीङ्कार-हिमवद्गङ्गायै नमः ॐ ह्रीङ्कारार्णव-कौस्तुभायै नमः ॐ ह्रीङ्कार-मन्त्र-सर्वस्वायै नमः ॐ ह्रीङ्कार-परसौख्यदायै नमः

॥ इति श्री ललितात्रिशतीनामावलिः ॥
পাঠ জপ: 0/108