দুর্গার্চনাগীতিঃ
दुर्गार्चनागीतिः
जगदम्ब देवि जय जय! जगदम्ब देवि! जय जय ॥ ध्रुवम्॥
सुरसङ्घ-पूजनीया त्रैलोक्य-माननीया । दुःखौघनाशकर्त्री, जननी जनार्तिहर्त्री । दुर्गें दयां प्रदर्शय । जगदम्ब देवि! जय जय ॥ १॥
प्रथमाऽसि "शैलपुत्री'' त्वं "ब्रह्मचारिणी'' द्वितीया । त्वं चारु "चन्द्रघण्टा'' संराजिता तृतीया । सन्मार्गमिह प्रदर्शय । जगदम्ब देवि! जय जय ॥ २॥
"कूष्माण्डजा'' प्रणम्या, ब्रह्मादितोऽप्यगम्या । श्री "स्कन्द-मातृ''रूपा, या शक्तिशिवस्वरूपा । दुर्दैंवमाशु भञ्जय, जगदम्ब देवि! जय जय ॥ ३॥
"कात्यायनी'' भवित्री, दनुजावलीसवित्री । त्वं "कालरात्रि''रेषा, दुद्धर्ष-भीम-वेषा । निज-भक्त-भीरूतां जय । जगदम्ब देवि! जय जय ॥ ४॥
"गौरीं'' महाप्रसिद्धां, प्रणमन्ति यां सुसिद्धाः। सा "सिद्धिदात्र्यवित्री'', कुशलेष्वलं भवित्री । आशां च मेऽत्र पूरय । जगदम्ब देवि! जय जय ॥ ५॥
काली करालिनी त्वं, जनलोकपालिनी त्वम् । लक्ष्मीसमा गिरा त्वं भक्तेष्वनुग्रहा त्वम् । लोकानशेषमीरय । जगदम्ब देवि! जय जय ॥ ६॥
दुर्गासि दुर्गहन्त्री क्लेशाद्यविघ्नहन्त्री । त्वं हे महासरस्वति, संगृह्यतां स्तवोऽयम् । सौभाग्यमत्र कल्पय । जगदम्ब देवि! जय जय ॥ ७॥
जननि! "द्विजेन्द्र'' बालः, शरणागतोऽनवद्यः । नीराजनां प्रणामान्, चाङ्गीकुरुष्व सद्यः । विजयं विधीयतां जय । जगदम्ब देवि! जय जय ॥ ८॥
इति श्रीसरयूप्रसादशास्त्रीद्विजेन्द्रेण लिखितता दुर्गार्चनागीतिः