E-Pustakalaya
श्रीविष्णु स्तोत्रम्
भगवान विष्णु

इन्दिरा एकादशी

Indiraa ekaadashee
रचयिता: पारंपरिक पाठ संख्या: 63
15px

अथाऽऽश्विनकृष्णैकादशीकथा
इन्दिरा एकादशी
युधिष्ठिर उवाच
कथयस्व प्रसादेन ममाऽग्रे मधुसूदन ।
आश्विने कृष्णपक्षे तु किं नामैकादशी भवेत् ॥ १ ॥

श्रीकृष्ण उवाच

आश्विनस्याऽसिते पक्षे इन्दिरा नाम नामतः ।
तस्या व्रतप्रभावेण महापापं प्रणश्यति ॥ २ ॥

अधोयोनिगतानां च पितॄणां गतिदायिनीम् ।
शृणुष्वाऽवहितो राजन् कथां पापहरां पराम् ॥ ३ ॥

यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ।
पुरा कृतयुगे राजा बभूव रिपुसूदनः ॥ ४ ॥

इन्द्रसेन इति ख्यातः पुरीं माहिष्मतीं प्रति ।
स राज्यं पालयामास धर्मेण यशसाऽन्वितः ॥ ५ ॥

पुत्रपौत्रसमायुक्तो धनधान्य-समन्वितः ।
माहिष्मत्याधिपो राजा विष्णुभक्तिपरायणः ॥ ६ ॥

जपन् गोविन्दनामानि मुक्तिदानि नराधिपः ।
कालं नयति विधिवदध्यात्मस्य विचिन्तकः ॥ ७ ॥

एकस्मिन् दिवसे राज्ञि सुखाऽऽसीने सदोगते ।
अवतीर्याऽऽगमद्धीमानम्बरात्नारदो मुनिः ॥ ८ ॥

तमागतमधिप्रेक्ष्य प्रत्युत्थाय कृताञ्जलिः ।
पूजयित्वाऽर्घ्यविधिना चाऽऽसने संन्यवेशयत् ॥ ९ ॥

सुखोपविष्टः स मुनिः प्रत्युवाच नृपोत्तमम् ।
कुशलं तव राजेन्द्र सप्तस्वङ्गेषु वर्तते ॥ १० ॥

धर्मे मतिर्वर्तते ते विष्णुभक्तिरतिस्तथा ।
इति वाक्यं तु देवर्षेः श्रुत्वा राजा तमब्रवीत् ॥ ११ ॥

राजोवाच 

त्वत्प्रसादान्मुनिश्रेष्ठ सर्वत्र कुशलं मम ।
अद्य क्रतुक्रियाः सर्वाः सफलास्तव दर्शनात् ॥ १२ ॥

प्रसादं कुरु विप्रर्षे ब्रूह्यागमनकारणम् ।
इति राज्ञो वचः श्रुत्वा देवर्षिवाक्यमब्रवीत् ॥ १३ ॥

नारद उवाच 

श्रूयतां राजशार्दूल मद्धचो विस्मयप्रदम् ।
ब्रह्मलोकादहं प्राप्तो यमलोकं नृपोत्तम ॥ १४ ॥

शमनेनाऽर्चितो भक्त्या उपविष्टो वरासने ।
धर्मशीलः सत्यवाँस्तु भास्करं समुपासते ॥ १५ ॥

बहुपुण्यप्रकर्ता च व्रतवैकल्य-दोषतः ।
सभायां श्राद्धदेवस्य मया दृष्टः पिता तव ॥ १६ ॥

कथितस्तेन सन्देशस्तं निबोध जनेश्वर ।
इन्द्रसेन इति ख्यातो राजा माहिष्मती-प्रभुः ॥ १७ ॥

तस्याऽग्रे कथय ब्रह्मन् स्थितं मां यमसन्निधौ ।
केनाऽपि चाऽन्तरायेण पूर्वजन्मोद्भवेन वै ॥ १८ ॥

स्वर्गं प्रेषय मां पुत्र इन्दिराव्रतदानतः ।
इत्युक्तोऽहं समायातः समीपं तव पार्थिव ॥ १९ ॥

पितुः स्वर्गंतये राजन्निन्दिराव्रतमाचर ।
तेन व्रतप्रभावेण स्वर्गं यास्यति ते पिता ॥ २० ॥

राजोवाच — ।।

कथयस्व प्रसादेन भगवन्निन्दिराव्रतम् ।
विधिना केन कर्तव्यं कस्मिन् पक्षे तिथौ तथा ॥ २१ ॥

नारद उवाच — ।।

शृणु राजन् हितं वच्मि व्रतस्याऽस्य विधिं शुभम् ।
आश्विनस्याऽसिते पक्षे दशमीदिवसे शुभे ॥ २२ ॥

प्रातः स्नानं प्रकुर्वीत श्रद्धायुक्तेन चेतसा ।
ततो मध्याह्नसमये स्नानं कृत्व्या बहिर्जले ॥ २३ ॥

पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धासमन्वितः ।
एकभुक्तं ततः कृत्व्या रात्रौ भूमौ शयीत च ॥ २४ ॥

प्रभाते विमले जाते प्राप्ते चैकादशीदिने ।
मुखप्रक्षालनं कुर्याद् दन्तधावनपूर्वकम् ॥ २५ ॥

उपवासस्य नियमं गृह्णीयाद्भक्तिभावतः ।
अद्य स्थित्वा निराहारः सर्वभोगविवर्जितः ॥ २६ ॥

श्वो भोक्ष्ये पुण्डरीकाक्ष शरणं मे भवाऽच्युत ।
इत्येवं नियमं कृत्व्या मध्याह्नसमये तथा ॥ २७ ॥

शालग्रामशिलाऽग्रे तु श्राद्धं कृत्वा यथाविधि ।
भोजयित्वा द्विजाञ्छुद्धांन् दक्षिणाभिः सुपूजितान् ॥ २८ ॥

पितृशेषं समाघ्राय गवे दद्याद्विचक्षणः ।
पूजयित्वा हृषीकेशं धूपगन्धादिभिस्तथा ॥ २९ ॥

रात्रौ जागरणं कुर्यात् केशवस्य समीपतः ।
ततः प्रभातसमये सम्प्राप्ते द्वादशीदिने ॥ ३० ॥

अर्चयित्वा हरिं भक्त्या भोजयित्वा द्विजानथ ।
बन्धुदौहित्रपुत्राद्यैः स्वयं भुञ्जीत वाग्यतः ॥ ३१ ॥

अनेन विधिना राजन् कुरु व्रतमतन्द्रितः ।
विष्णुलोकं प्रयास्यन्ति पितरस्तव भूपते ॥ ३२ ॥

इत्युक्त्या नृपतिं राजन् मुनिरन्तरधीयत ।
यथोक्तविधिना राजा चकार व्रतमुत्तमम् ॥ ३३ ॥

अन्तःपुरेण सहितः पुत्रभृत्यसमन्वितः ।
कृते व्रते तु कौन्तेय पुष्पवृष्टिर्बभूव दिवः ॥ ३४ ॥

तत्पिता गरुडारूढो जगाम विष्णुमन्दिरम् ।
इन्द्रसेनोऽपि राजर्षिः कृत्वा राज्यमकण्टकम् ॥ ३५ ॥

राज्यं निवेश्य तनयं जगाम त्रिदिवं स्वयम् ।
इन्दिराव्रतमाहात्म्यं तवाऽग्रे कथितं मया ॥ ३६ ॥

पठनाच्छ्रवणाच्चाऽस्य सर्वपापैः प्रमुच्यते ।
भुक्त्वाऽत्र निखिलान् भोगान् विष्णुलोके वसेच्चिरम् ॥ ३७ ॥

इति श्रीभविष्योत्तरपुराणे श्रीकृष्णार्जुनसंवादे आश्विनकृष्णैकादशीन्दिरामाहात्म्यं समाप्तम् ॥ २१ ॥

पाठ जप: 0/108

लिपि चयन (Select Script):

देवनागरी (संस्कृत / हिन्दी / नेपाली / मराठी)
सक्रिय
English (Roman)
ગુજરાતી
తెలుగు
ಕನ್ನಡ
தமிழ்
বাংলা
ଓଡ଼ିଆ
ਪੰਜਾਬੀ
മലയാളം
অসমীয়া

पाठ व फ़ॉन्ट सेटिंग

फ़ॉन्ट शैली (Font Style):
अक्षर का आकार (Size):
15px
पठन थीम (Color Theme):

मेन्यू