हरिबोधिनी एकादशी
हरिबोधिनी एकादशी
प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्धनम् ।
मुक्तिप्रदं सुबुद्धीनां शृणुष्व मुनिसत्तम ॥ १ ॥
तावद्गर्जति विप्रेन्द्र गङ्गा भागीरथी क्षितौ ।
यावन्नाऽऽयाति पापघ्नी कार्तिके हरिबोधनी ॥ २ ॥
तावद्गर्जन्ति तीर्थानि ह्यासमुद्रं सरांसि च ।
यावत् प्रबोधिनी विष्णोस्तिथिर्नाऽऽयाति कार्तिकी ॥ ३ ॥
अश्वमेधसहस्राणि राजसूयशतानि च ।
एकेनैवोपवासेन प्रबोधिन्यां लभेन्नरः ॥ ४ ॥
नारद उवाच
एकभक्तेन किं पुण्यं किं पुण्यं नक्तभोजने ।
उपवासेन किं पुण्यं तन्मे ब्रूहि पितामह ॥ ५ ॥
ब्रह्मोवाच
एकभक्तेन जन्मोत्थं नक्तेन द्विजन्मद्भवम् ।
सप्तजन्मभवं पापमुपवासेन नश्यति ॥ ६ ॥
यद्दुर्लभं यदप्राप्यं त्रैलोक्ये न तु गोचरम् ।
यदप्यप्रार्थितं पुत्र ददाति हरिबोधिनी ॥ ७ ॥
मेरुमन्दरमात्राणि पापान्युग्राणि यानि तु ।
एकेनैवोपवासेन दहते पापहारिणी ॥ ८ ॥
पूर्वजन्मसहस्रैस्तु यद् दुष्कर्म उपार्जितम् ।
जागरेण प्रबोधिन्यां दहते तूलराशिवत् ॥ ९ ॥
उपवासं प्रबोधिन्यां यः करोति स्वभावतः ।
विधिवन्मुनिशार्दूल यथोक्तं लभते फलम् ॥ १० ॥
यथोक्तं सुकृतं यस्तु विधिवत् कुरुते नरः ।
स्वल्पं मुनिवरश्रेष्ठ मेरुतुल्यं भवेत् फलम् ॥ ११ ॥
विधिहीनं तु यः कुर्यात् सुकृतं मेरुमात्रकम् ।
अणुमात्रं न चाऽऽप्नोति फलं धर्मस्य नारद ॥ १२ ॥
सन्ध्याहीने व्रतभ्रष्टे नास्तिके वेदनिन्दके ।
नैतेषां तिष्ठते देहे धर्मशास्त्रविदूषके ॥ १३ ॥
परदाररते मूर्खे कृतघ्ने वञ्चके तथा ।
धर्मो न तिष्ठते देहे एतेषामपि देहिनाम् ॥ १४ ॥
ब्राह्मणो वाऽपि शूद्रो वा सेवते परयोषितम् ।
ब्राह्मणीं च विशेषेण चाण्डालसदृशावुभौ ॥ १५ ॥
सभर्तृकां वा विधवा ब्राह्मणीं ब्राह्मणो यदि ।
सेवते मुनिशार्दूल सान्वयो याति संक्षयम् ॥ १६ ॥
परदाराभिगमनं कुरुते यो द्विजाऽधमः ।
सन्ततिर्न भवेत् तस्य फलं जन्माजितं नहि ॥ १७ ॥
गुरुणा सह विप्रैश्च योऽहंकारेण वर्तते ।
सुकृतं नश्यते शीघ्रं धनं नाऽऽप्नोति सन्ततिम् ॥ १८ ॥
आचारभ्रष्टदेहानां वृषलीगामिनां तथा ।
दुर्जनं सेवमानानां धर्मस्तेषां पराङ्मुखः ॥ १९ ॥
पतितैः सह सङ्गं च तद्गृहे गमनं तथा ।
ये कुर्वन्ति नृपश्रेष्ठ ते गच्छन्ति यमाऽऽलये ॥ २० ॥
धर्मो नष्टो नृणां येषां स्वागताऽऽसनभोजनैः ।
तेषां वै नश्यते वत्स कीर्तिरायुः-प्रजा-सुखम् ॥ २१ ॥
साधूनामपमानं तु ये कुर्वन्ति नराधमाः ।
त्रिवर्गफलहीनास्ते दह्यन्ते नरकाग्निना ॥ २२ ॥
कृत्याऽवमानं साधूनां ये हृष्यन्ति नराधमाः ।
वारयन्ति न ये मूढास्ते पश्यन्ति कुलक्षयम् ॥ २३ ॥
आचारभ्रष्टदेहस्य पिशुनस्य शठस्य च ।
ददतो जुह्वतो वाऽपि गतिस्तस्य न विद्यते ॥ २४ ॥
तस्मान्त्याचरेत् किञ्चिदशुभं लोकगर्हितम् ।
सदाचारवता भाव्यं यथा धर्मो न नश्यति ॥ २५ ॥
ये ध्यायन्ति मनोवृत्त्या करिष्यामः प्रबोधिनीम् ।
तेषां विलीयते पापं पूर्वजन्मशतोद्भवम् ॥ २६ ॥
समतीतं भविष्यं च वर्तमानं कुलाऽयुतम् ।
विष्णुलोकं नयत्याशु प्रबोधिन्यां तु जागरे ॥ २७ ॥
वसन्ति पितरो हृष्टा विष्णुलोकेऽत्यलंकृताः ।
विमुक्ता नारकैर्दुःखैः पूर्वकर्मसमुद्भवैः ॥ २८ ॥
कृत्या तु पातकं घोरं ब्रह्महत्यादिकं नरः ।
कृत्व्या तु जागरं विष्णोर्धौतपापो भवेन्मुने ॥ २९ ॥
दुष्प्राप्यं यत् फलं रम्यैरश्वमेधादिभिर्मखैः ।
प्राप्यते तत् सुखेनैव प्रबोधिन्यां तु जागरे ॥ ३० ॥
आप्लुत्य सर्वतीर्थेषु दत्त्वा गाः काञ्चनं महीम् ।
न तत् फलमवाप्नोति यत् कृत्वा जागरं हरेः ॥ ३१ ॥
जातः स एव सुकृती कुलं तेनैव पावितम् ।
कार्तिके मुनिशार्दूल कृता येन प्रबोधिनी ॥ ३२ ॥
यथा ध्रुवं नृणां मृत्युर्धननाशस्तथा ध्रुवम् ।
इति ज्ञात्वा मुनिश्रेष्ठ कर्तव्यं वैष्णवं दिनम् ॥ ३३ ॥
यानि कानि च तीर्थानि त्रैलोक्ये सम्भवन्ति च ।
तानि तस्य गृहे सम्यग् यः करोति प्रबोधिनीम् ॥ ३४ ॥
सर्वकृत्यं परित्यज्य तुष्ट्यर्थं चक्रपाणिनः ।
उपोष्यैकादशी रम्या कार्तिके हरिबोधिनी ॥ ३५ ॥
स ज्ञानी स च योगी च स तपस्वी जितेन्द्रियः ।
भोगो मोक्षश्च तस्याऽस्ति ह्युपास्ते हरिबोधिनीम् ॥ ३६ ॥
विष्णुप्रेयतरा ह्येषा धर्मसारस्य दायिनी ।
सकृदेनामुपोष्यैव मुक्तिभाक् च भवेन्नरः ॥ ३७ ॥
प्रबोधिनीमुपोषित्या न गर्भे विशते नरः ।
सर्वधर्मान् परित्यज्य तस्मात् कुर्वीत नारद ॥ ३८ ॥
कर्मणा मनसा वाचा पापं यत् समुपार्जितम् ।
तत् क्षालयति गोविन्दः प्रबोधिन्यां तु जागरे ॥ ३९ ॥
स्नानं दानं जपो होमः समुद्दिश्य जनार्दनम् ।
नरैर्यत् क्रियते वत्स प्रबोधिन्यां तदक्षयम् ॥ ४० ॥
येऽर्चयन्ति नरास्तस्यां भक्त्या देवं च माधवम् ।
समुपोष्य प्रमुच्यन्ते पापैस्ते शतजन्मभिः ॥ ४१ ॥
महाव्रतमिदं पुत्र महापापौघनाशनम् ।
प्रबोधवासरं विष्णोर्विधिवत् समुपोषयेत् ॥ ४२ ॥
व्रतेनाऽनेन देवेशं परितोष्य जनार्दनम् ।
विराजयन् दिशः सर्वाः प्रयाति भवनं हरेः ॥ ४३ ॥
कर्तव्यैषा प्रयत्नेन नरैः कान्तिमभीप्सुभिः ।
एकादशीम् ऋषिश्रेष्ठ कार्तिके तु प्रबोधिनीम् ॥ ४४ ॥
बाल्ये यच्चाऽर्जितं वत्स यौवने वार्धके तथा ।
शतजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥ ४५ ॥
शुष्कमा वा मुनिश्रेष्ठ स्वगुह्यमपि नारद ।
तत् क्षालयति गोविन्दमस्यामभ्यर्च्य भक्तितः ॥ ४६ ॥
धनधान्यवहा पुण्या सर्वपापहरा परा ।
तामुपोष्य हरेर्भक्त्या दुर्लभं न भवेत् क्वचित् ॥ ४७ ॥
चन्द्रसूर्योपरागे च यत् फलं परिकीर्तितम् ।
तत्सहस्रगुणं प्रोक्तं प्रबोधिन्यां तु जागरात् ॥ ४८ ॥
स्नानं दानं जपो होमः स्वाध्यायोऽभ्यर्चनं हरेः ।
तत् सर्वं कोटितुल्यं तु प्रबोधिन्यां तु यत् कृतम् ॥ ४९ ॥
जन्मप्रभृति यत् पुण्यं नरेणाऽभ्यर्जितं भवेत् ।
वृथा भवति तत् सर्वमकृत्वा कार्तिकव्रतम् ॥ ५० ॥
अकृत्वा नियमं विष्णोः कार्तिकं यः क्षिपेन्नरः ।
जन्माऽर्जितस्य पुण्यस्य फलं नाऽऽप्नोति नारद ॥ ५१ ॥
तस्मात् त्वया प्रयत्नेन देवदेवो जनार्दनः ।
उपासनीयो विप्रेन्द्र सर्वकामफलप्रदः ॥ ५२ ॥
परान्नं वर्जयेद्यस्तु कार्तिके विष्णुतत्परः ।
परान्नवर्जनाद्वत्स चान्द्रायणफलं लभेत् ॥ ५३ ॥
न तथा तुष्यते यज्ञैर्न दानैर्वा गजादिभिः ।
यथा शास्त्रकथाऽऽलापैः कार्तिके मधुसूदनः ॥ ५४ ॥
ये कुर्वन्ति कथां विष्णोर्ये शृण्वन्ति समाहिताः ।
श्लोकं वा श्लोकपादं वा कार्तिके गोशतं फलम् ॥ ५५ ॥
सर्वधर्मान् परित्यज्य ममाऽग्रे कार्तिके नरैः ।
शास्त्राऽवधारणं कार्यं श्रोतव्यं च सदा मुने ॥ ५६ ॥
श्रेयसा लोभबुद्ध्या वा यः करोति हरेः कथाम् ।
कार्तिके मुनिशार्दूल कुलानां तारयेच्छतम् ॥ ५७ ॥
नित्यं शास्त्रविनोदेन कार्तिकं यः क्षिपेन्नरः ।
निर्दहेत् सर्वपापानि यज्ञाऽयुतफलं लभेत् ॥ ५८ ॥
नियमेन नरो यस्तु शृणुते वैष्णवीं कथाम् ।
कार्तिके तु विशेषेण गोसहस्रफलं लभेत् ॥ ५९ ॥
प्रबोधवासरे विष्णोः कुरुते यो हरेः कथाम् ।
सप्तद्वीपवतीदाने तत् फलं लभते मुने ॥ ६० ॥
श्रुत्वा विष्णुकथां दिव्यां येऽर्चयन्ति कथाविदम् ।
स्वशक्त्या मुनिशार्दूल तेषां लोकाः सनातनाः ॥ ६१ ॥
ब्रह्मणो वचनं श्रुत्वा नारदः पुनरब्रवीत् ।
नारद उवाच
विधानं ब्रूहि मे स्वामिन्नेकादश्याः सुरोत्तम ॥ ६२ ॥
चीर्णेन येन भगवन् यादृशं फलमाप्नुयात् ।
नारदस्य वचः श्रुत्वा ब्रह्मा वचनमब्रवीत् ॥ ६३ ॥
ब्रह्मोवाच
ब्राह्मे मुहूर्ते चोत्थाय ह्येकादश्यां द्विजोत्तम ।
स्नानं चैव प्रकर्तव्यं दन्तधावनपूर्वकम् ॥ ६४ ॥
नद्यां तडागे कूपे वा वाप्यां गेहे तथैव च ।
केशवञ्चैव संपूज्य कथायाः श्रवणं तथा ॥ ६५ ॥
नियमाऽर्थे महाभाग इमं मन्त्रमुदीरयेत् ।
एकादश्यां निराहारः स्थित्वाऽहनि परे ह्यहम् ॥ ६६ ॥
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाऽच्युत ।
अमुं मन्त्रं समुच्चार्य देवदेवस्य चक्रिणः ॥ ६७ ॥
भक्तिभावेन तुष्टात्मा ह्युपवासं समर्पयेत् ।
रात्रौ जागरणं कार्यं देवदेवस्य सन्निधौ ॥ ६८ ॥
गीतं नृत्यं च वाद्यं च तथा कृष्णकथां मुने ।
यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः ॥ ६९ ॥
बहुपुष्पैर्बहुफलैः कर्पूराऽगरुकुङ्कुमैः ।
हरेः पूजा विधातव्या कार्तिकीयां बोधवासरे ॥ ७० ॥
वित्तशाठ्यं न कर्तव्यं संप्राप्ते हरिवासरे ।
यस्मात् पुण्यमसंख्यातं प्राप्यते मुनिसत्तम ॥ ७१ ॥
फलैर्नानाविधैर्दिव्यैः प्रबोधिन्यां तु जागरे ।
शङ्खे तोयं समादाय ह्यार्घ्यो देयो जनार्दने ॥ ७२ ॥
यत् फलं सर्वतीर्थेषु सर्वदानेषु यत् फलम् ।
तत् फलं कोटिगुणितं दत्त्वाऽर्घ्यं बोधवासरे ॥ ७३ ॥
अगस्त्यकुसुमैर्दिव्यैः पूजयेद् यो जनार्दनम् ।
देवेन्द्रोऽपि मुनिश्रेष्ठ करोति करसंपुटम् ॥ ७४ ॥
न तत् करोति विप्रेन्द्र तपसा तोषितो हरिः ।
यत् करोति हृषीकेशो मुनिपुष्पैरलंस्कृतः ॥ ७५ ॥
बिल्वपत्रैश्च ये कृष्णं कार्तिके कलिवर्धन ।
पूजयन्ति महाभक्त्या मुक्तिस्तेषां मयोदिता ॥ ७६ ॥
तुलसीदलपुष्पैश्च पूजयन्ति जनार्दनम् ।
कार्तिके सकलं वत्स पापं जन्माऽयुतं दहेत् ॥ ७७ ॥
दृष्टा स्पृष्टाऽथवा ध्याता कीर्तिता नमिता स्तुता ।
रोपिता सेचिता नित्यं पूजिता तुलसी शुभा ॥ ७८ ॥
नवधा तुलसीभक्तिं ये कुर्वन्ति दिनेदिने ।
युगकोटिसहस्राणि ते वसन्ति हरेर्गृहे ॥ ७९ ॥
रोपिता तुलसी यावत् कुरुते मूलविस्तरम् ।
तावद्युगसहस्राणि तनोति सुकृतं मुने ॥ ८० ॥
यावच्छाखाप्रशाखाभिर्बीजपुष्पदलैर्मुने ।
रोपिता तुलसी पुंर्भिर्वर्धते वसुधातले ॥ ८१ ॥
कुले तेषां तु ये जाता ये भविष्यन्ति ये गताः ।
आकल्पयुगसाहस्रं तेषां वासो हरेर्गृहे ॥ ८२ ॥
कदम्बकुसुमैर्देवं येऽर्चयन्ति जनार्दनम् ।
तेषां यमालयो नैव प्रसादाच्चक्रपाणिनः ॥ ८३ ॥
दृष्ट्वा कदम्बकुसुमं प्रीतो भवति केशवः ।
किं पुनः पूजतो विप्र सर्वकामप्रदो हरिः ॥ ८४ ॥
यः पुनः पाटलापुष्पैर्वसन्ते गरुडध्वजम् ।
अर्चयेत् परया भक्त्या मुक्तिभागी भवेद्धि सः ॥ ८५ ॥
बकुलाऽशोककुसुमैर्यजन्ति जगत्पतिम् ।
विशोकास्ते भविष्यन्ति यावच्चन्द्रदिवाकरौ ॥ ८६ ॥
येऽर्चयन्ति जगन्नाथं करवीरैः सिताऽसितैः ।
चतुर्युगानि विप्रेन्द्र प्रीतो भवति केशवः ॥ ८७ ॥
मञ्जरीं सहकारस्य केशवोपरि ये नराः ।
यच्छन्ति ते महाभागा गोकोटिफलभागिनः ॥ ८८ ॥
दूर्वाङ्कुरान् हरेर्यस्तु पूजाकाले प्रयच्छति ।
पूजाफलं शतगुणं सम्यगाप्नोति मानवः ॥ ८९ ॥
शमीपत्रैस्तु ये देवं पूजयन्ति सुखप्रदम् ।
यममार्गो महाघोरो निस्तीर्णस्तैस्तु नारद ॥ ९० ॥
वर्षाकाले तु देवेशं कुसुमैश्चम्पकोद्भवैः ।
येऽर्चयन्ति न ते मर्त्याः संसारेषु पुनर्भवै ॥ ९१ ॥
कुम्भीपुष्पं तु विप्रर्षे ये यच्छन्ति जनार्दनम् ।
सुवर्णपलमात्रं ते लभन्ते वै फलं मुने ॥ ९२ ॥
सुवर्णकेतकीपुष्पं यो ददाति जनार्दने ।
कोटिजन्माऽर्जितं पापं दहते गरुडध्वजः ॥ ९३ ॥
कुंकुमारुणवर्णां च गन्धाऽऽढ्यां शतपत्रिकाम् ।
यो ददाति जगन्नाथे श्वेतद्वीपानुगो वसेत् ॥ ९४ ॥
एवं सम्पूज्य रात्रौ च केशवं भुक्तिमुक्तिदम् ।
प्रातरुत्थाय च ब्रह्मन् गत्वा तु सजलां नदीम् ॥ ९५ ॥
तत्र स्नात्वा जपित्वा च कृत्वा पूर्वाण्हिकीः क्रियाः ।
गृहे गत्वा च सम्पूज्यः केशवो विधिवन्नरैः ॥ ९६ ॥
व्रतस्य पूरणार्थाय ब्राह्मणान् भोजयेत् सुधीः ।
क्षमापयेच्च शिरसा भक्तियुक्तेन चेतसा ॥ ९७ ॥
गुरूपूजा ततः कार्या भोजनाच्छादनादिभिः ।
दक्षिणा चापि दातव्या तुष्ट्यर्थं चक्रपाणिनः ॥ ९८ ॥
भूयसी चैव दातव्या ब्राह्मणेभ्यः प्रयत्नतः ।
नियमश्चैव सन्त्याज्यो ब्राह्मणाऽग्रे प्रयत्नतः ॥ ९९ ॥
कथयित्वा द्विजेभ्यस्तद्दद्याच्छत्त्या च दक्षिणाम् ।
नक्तभोजी नरो राजन् ब्राह्मणान् भोजयेच्छुभान् ॥ १०० ॥
अयाचिते बलीवर्दं सहिरण्यं प्रदापयेत् ।
अमांसाशी नरो यस्तु प्रददेद् गां सदक्षिणाम् ॥ १०१ ॥
धात्रीस्नायी नरो दद्याद् दधिमाक्षिकमेव च ।
फलानां नियमे राजन् फलदानं समाचरेत् ॥ १०२ ॥
तैलस्थाने घृतं देयं घृतस्थाने पयः स्मृतम् ।
धान्यानां नियमे राजन् दीयन्ते शालितण्डुलाः ॥ १०३ ॥
दद्याद् भूशयने शय्यां सतूलां सपरिच्छदाम् ।
पत्रभोजी नरो राजन् भोजनं घृतसंयुतम् ॥ १०४ ॥
मौने घण्टां तिलांश्चैव सहिरण्यं प्रदापयेत् ।
दम्पत्योर्भोजनं देयं निःस्नेहं सर्पिषा युतम् ॥ १०५ ॥
धारणेन स्वकेशानामादर्शं दापयेद् बुधः ।
उपानहौ प्रदातव्ये उपानत्परिवर्जनात् ॥ १०६ ॥
लवणस्य च संत्यागे शर्करां च प्रदापयेत् ।
नित्यं दीपः प्रदेयस्तु विष्णोर्वा विबुधालये ॥ १०७ ॥
सदीपं सघृतं ताम्रं काञ्चनं वा दशायुतम् ।
प्रदद्याद् विष्णुभक्ताय संपूर्णव्रतहेतवे ॥ १०८ ॥
एकान्तरोपवासे तु कुम्भानष्टौ प्रदापयेत् ।
सवस्त्रान् काञ्चनोपेतान् सर्वान् सालंकृताञ्छुभान् ॥ १०९ ॥
सर्वेषामप्यलाभे तु यथोक्तकरणं विना ।
द्विजवाक्यं स्मृतं राजन् संपूर्णव्रतसिद्धिदम् ॥ ११० ॥
नत्वा विसर्जयेद्विप्रांस्ततो भुञ्जीत च स्वयम् ।
यत् त्यक्तं चतुरो मासान् समाप्तिं तस्य चाऽऽचरेत् ॥ १११ ॥
एवं य आचरेत् प्राज्ञः सोऽनन्तफलमाप्नुयात् ।
अवसाने तु राजेन्द्र वासुदेवपुरं व्रजेत् ॥ ११२ ॥
यश्चाऽविघ्नं समाप्यैवं चातुर्मास्यव्रतं नृप ।
स भवेत् कृतकृत्यस्तु न पुनर्मानुषो भवेत् ॥ ११३ ॥
एतत् कृत्व्या महीपाल परिपूर्णं व्रतं भवेत् ।
व्रतवैकल्यमासाद्य ह्यन्धः कुष्ठी प्रजायते ॥ ११४ ॥
एतत् ते सर्वमाख्यातं यत् पृष्टोऽहमिह त्वया ।
पठनाच्छ्रवणाद्वाऽपि लभेदोदानजं फलम् ॥ ११५ ॥
इति श्रीभविष्योत्तरपुराणे श्रीकृष्णार्जुनसंवादे कार्तिकशुक्लैकादशीप्रबोधिनीमाहात्म्यं समाप्तम् ॥ २४ ॥